Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी गतदिवसेषु अन्तरिक्षक्षेत्रे कार्यं कुर्वतां नवप्रवर्तकप्रतिष्ठानानां सम्बद्धैः युवानेतृत्वकर्तृभिः सह मिलितवान्। अस्यां भेटायां सः आश्वासनं दत्तवान् यत् सर्वकारः एतादृशेन प्रतिबद्धताभावेन कार्यं करोति, येन तेषां मनसि एषा भावना भवेत् यत् कश्चिदपि तेषां साहाय्यं कदापि न त्यक्ष्यति।
प्रधानमन्त्रिणः आवासे शुक्रवासरे सम्पन्नस्य अस्य संवादस्य चलचित्रं रविवासरे राष्ट्रियान्तरिक्षदिवसस्य अवसरे प्रकाशितम्। अस्मिन् प्रधानमन्त्री युवभ्यः नवप्रवर्तकप्रतिष्ठाननेतृत्वकर्तृभ्यः उक्तवान् यत् भवद्भिः नूतने क्षेत्रे साहसं प्रदर्शितम् अस्ति। सर्वाधिकं महत्त्वपूर्णं तु एतत् यत् भवद्भिः सर्वकारस्य वचने विश्वासः कृतः।
चलचित्रं साझीकृत्य प्रधानमन्त्री एक्स इत्यत्र उक्तवान्, भारतस्य केषाञ्चित् प्रतिभाशालिनाम् अन्तरिक्षनवप्रवर्तकप्रतिष्ठानानां युवनेतृत्वकर्तृभिः सह मम भेटः अभवत्। सदैव इव तेषां ऊर्जया महत्त्वाकाङ्क्षया च अहम् अत्यन्तं प्रभावितः अभवम्। तेषां दूरदर्शिता आशावादिता च भवतां सर्वेषां रोचिष्यते। माम् अवदत, भारतस्य अन्तरिक्षयात्रायां भवतां सर्वाधिकं किम् उत्साहितं करोति?
चलचित्रे प्रधानमन्त्री नवप्रवर्तकप्रतिष्ठानानां नेतृत्वकर्तृन् कथयति, मम एकः मतः सदैव आसीत् यत् यानि निर्णयानि वयं कुर्मः, तेषु वयं स्थिराः भवेम। पुनः पुनः तेषु परिवर्तनं न कुर्मः, येन कश्चित् जोखिमं स्वीकर्तुम् इच्छति चेत् तस्य विश्वासः भवेत् यत् मम त्रुट्या किमपि विपरीतं भवेत् चेत् तत् स्वीकार्यम्, किन्तु कश्चिदपि मम हस्तं न त्यक्ष्यति। एतादृशस्य विश्वासस्य निर्माणमेव अस्माकं प्रयासः अस्ति।
अस्मिन् संवादे एकः युवा उद्यमी प्रधानमन्त्रिणम् उक्तवान् यत् वैश्विकस्तरे तेषां संस्थायै अत्यन्तं उत्तमः प्रतिसादः प्राप्तः अस्ति। अस्मिन् भारतीयकम्पनीनां निर्याताय सर्वकारेण प्रदीयमानं साहाय्यम् अपि महत्त्वपूर्णं कारणम् अस्ति।
प्रधानमन्त्री अस्मिन् विषये भारतस्य उद्यमितायाः विशेषतां निर्दिश्य उक्तवान् यत् अस्माकं मूल्याः अत्यन्तं प्रतिस्पर्धात्मकाः सन्ति। प्रतिभायां अस्माकं समकक्षः कोऽपि नास्ति तथा च जोखिमं स्वीकर्तुं सामर्थ्यम् अस्माकं देशवासिनां स्वभावतः एव अधिकम् अस्ति। अत एव वयं वैश्विकपटलस्य उपरि अत्यन्तं शीघ्रं स्वस्थानं निर्मातुं शक्नुमः।
तत्रैव अन्यः एकः युवा नेतृत्वकर्ता उक्तवान् यत् तस्य मतानुसारम् अन्तरिक्षक्षेत्रस्य उद्घाटनेन महत्त्वपूर्णः परिवर्तनः अभवत्। यूरोपे अमेरिकायां च निवसन्तः अस्माकं बहवः भारतीयाः पुनः अस्माभिः सह कार्यं कर्तुम् इच्छन्ति।
अस्मिन् विषये प्रधानमन्त्री उक्तवान् यत् अस्माभिः बहवः जनाः संयोजनीयाः सन्ति। तस्य मतम् अस्ति यत् अस्माभिः एतादृशं वातावरणं निर्मातव्यं येन अस्मिन् क्षेत्रे कार्यं कर्तुम् इच्छन्ती विश्वस्य प्रतिभा मन्येत यत् यदि तस्याः स्वकीयः व्यवसायमार्गः निर्मातव्यः अस्ति तर्हि सा भारतम् आगच्छेत्। भारतस्य कस्मिंश्चित् नवप्रवर्तकप्रतिष्ठानेन सह सम्बद्धा भवेत् अथवा भारतस्य कस्याश्चित् अन्तरिक्षसंस्थायाः सह सम्बद्धा भवेत्।
सः उक्तवान्, अहं दृढतया मन्ये। सम्पूर्णं प्रतिभासमूहं चुम्बकमिव भवतां कारणेन वयं स्वसमीपम् आकर्षितुं शक्नुमः। सः अस्माकं महती शक्तिः भवितुम् अर्हति।
उल्लेखनीयं यत् भारतस्य निजान्तरिक्षक्षेत्रे विगतेषु वर्षेषु महत्त्वपूर्णा प्रगतिः अभवत्। नवप्रवर्तकप्रतिष्ठानानि उपग्रहाणां, प्रक्षेपणयानानां अन्तरिक्षप्रौद्योगिक्याश्च विकासे सक्रियां भूमिकां निर्वहन्ति। अग्निकुल् कॉसमॉस्, स्कायरूट् एयरोस्पेस्, पिक्सल् इत्यादीनि प्रतिष्ठानानि भारतस्य निजान्तरिक्षसामर्थ्यं सुदृढं कृतवन्ति। अनेन अन्तरिक्षक्षेत्रे नवाचारस्य निवेशस्य वैश्विकप्रतिस्पर्धायाश्च प्रोत्साहनं प्राप्तम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani