प्रधानमन्त्रिणा मोदिना राष्ट्रीय-अन्तरिक्ष-दिवसस्य शुभकामनाः प्रदत्ताः
नवदिल्ली, २३ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य प्रातः एक्स्-पोस्ट्-माध्यमेन राष्ट्रीय-अन्तरिक्ष-दिवसस्य शुभकामनाः प्रदत्ताः। तेन उक्तम्— “आगच्छन्तु, वयं अधिकान् विशालान् स्वप्नान् पश्येम। अधिकं नवोन्मेषं कुर्मः तथा च नूतनाः सीम
0d30162a6c290432c599df6936c79105_455227876.jpg


नवदिल्ली, २३ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य प्रातः एक्स्-पोस्ट्-माध्यमेन राष्ट्रीय-अन्तरिक्ष-दिवसस्य शुभकामनाः प्रदत्ताः। तेन उक्तम्— “आगच्छन्तु, वयं अधिकान् विशालान् स्वप्नान् पश्येम। अधिकं नवोन्मेषं कुर्मः तथा च नूतनाः सीमाः अतिक्रामेम...।”

विक्रम-अवतरकस्य सफलतायाः अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना २६ अगस्तमासे २०२३ तमे वर्षे बेङ्गलूरुनगरे भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य मुख्यालयस्य यात्रायाः समये २३ अगस्त-दिनं ‘राष्ट्रीय-अन्तरिक्ष-दिवसः’ इति रूपेण आचरितुं घोषणा कृता आसीत्।

२०२३ तमे वर्षे अगस्तमासस्य २३ दिनाङ्के भारतदेशेन चन्द्रस्य ध्रुवस्य समीपे चन्द्रयान-३ इत्यस्य सफलया कोमलावतरणया ऐतिहासिकं साफल्यम् अधिगतम्। भारतं चन्द्रे अन्तरिक्षयानम् अवतारयितुं विश्वस्य चतुर्थं राष्ट्रम् अभवत् तथा च चन्द्रस्य दक्षिणध्रुवस्य समीपे अवतरणं कर्तुं प्रथमं राष्ट्रम् अभवत्। विक्रम-अवतरकेन चन्द्रस्य पृष्ठभागस्य अध्ययनाय प्रज्ञान-रोवर-यानमपि चन्द्रे अवतारितम्। प्रधानमन्त्रिणा उक्तं यत् अस्य ऐतिहासिकस्य अभियानस्य परिणामैः आगामिषु वर्षेषु मानवजातिः लाभान्विता भविष्यति।

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन अद्य उक्तम्— “वयं भवन्तः अद्य अस्माभिः सह राष्ट्रीय-अन्तरिक्ष-दिवसस्य आचरणाय शपथं ग्रहीतुं आमन्त्रयामः। भारतं प्रमुखां अन्तरिक्षशक्तिं कर्तुं च स्वकीयां प्रतिबद्धतां पुनः दृढीकुर्मः।”

Hindusthan Samachar / Divya Ranjan