नैमिषारण्ये देववाणी प्रतिध्वनिता, बटुकैः क्रीडाक्रीडया संस्कृतं शिक्षितम्
सीतापुरम्, २३ अगस्तमासः (हि.स.)। संस्कृतभारत्याः पक्षतः नैमिषक्षेत्रस्थिते आत्मानन्द-संस्कृत-शिक्षणसंस्थाने संस्कृतसप्ताहस्य अन्तर्गतं बटुकानां कृते भाषाक्रीडाभिः संस्कृतभाषा सरलतया सरसतया च पाठ्यते। अस्मिन् अवसरे विद्यार्थिषु देववाणीं प्रति उत्साह
खेल के माध्यम से संस्कृत सीखते बटुक


सीतापुरम्, २३ अगस्तमासः (हि.स.)। संस्कृतभारत्याः पक्षतः नैमिषक्षेत्रस्थिते आत्मानन्द-संस्कृत-शिक्षणसंस्थाने संस्कृतसप्ताहस्य अन्तर्गतं बटुकानां कृते भाषाक्रीडाभिः संस्कृतभाषा सरलतया सरसतया च पाठ्यते। अस्मिन् अवसरे विद्यार्थिषु देववाणीं प्रति उत्साहः दृष्टः।

संस्कृतभारत्याः कार्यकर्ता अंशुगुप्तः विविधाभिः भाषाक्रीडाभिः बालकेभ्यः संस्कृतस्य क्रीडाः अकारयत् तथा च सहजतया संस्कृतशब्दानां प्रयोगं वाक्यरचनां च अशिक्षयत्। अस्मिन् अवसरे सः “मम स्थाने संस्कृतम्” इति ध्येयवाक्येन संस्कृतसम्भाषणस्य शिक्षणे दैनिकजीवने च संस्कृतभाषायाः प्रयोगे विशेषं बलं दत्तवान्। सः अवदत् यत् संस्कृतभारती १९८१ तमवर्षात् निरन्तरं संस्कृतभाषायाः पुनरुज्जीवने संलग्ना अस्ति तथा च देशव्यापिनि जाति-धर्म-वर्गभेदान् अतिक्रम्य लक्षशः जनानां संस्कृतसम्भाषणस्य प्रशिक्षणं दत्तवती अस्ति। क्रीडाक्रीडया अधिगता भाषा बालकानां मनसि स्थायिरूपेण प्रतिष्ठिता भवति, तेन संस्कृतभाषां प्रति भयभावः नश्यति तथा च तस्याः प्रति स्वाभाविकः अनुरागः जायते।

कार्यक्रमे शिक्षणसंस्थायाः संस्थापकः आचार्यः सर्वेशशुक्लः अपि उपस्थितः आसीत्। स्वीयसम्बोधने सः बटुकान् आशीर्वचनैः अनुगृह्य अवदत् यत् संस्कृतं केवलं भाषा न, अपि तु भारतीयसंस्कृतेः संस्कारस्य च आत्मा अस्ति। नैमिषारण्ये ऋषिमुनीनां पावनतपोभूमौ संस्कृत-सप्ताहस्य आयोजनम् अस्मिन् दिशि शुभसंकेतः अस्ति। संस्कृतभारत्या सञ्चाल्यमानस्य अस्य अभियानस्य प्रशंसां कुर्वन् सः अवदत् यत् बालकेषु बाल्यकालादेव संस्कृतभाषां प्रति रुचेः जागरणम् अग्रिमवंशानां स्वकीयैः सांस्कृतिकमूलैः सह संयोजनस्य सशक्तं माध्यमम् अस्ति। संस्कृतसप्ताहस्य अन्तर्गतं अग्रिमेषु दिवसेष्वपि विविधाभिः रोचकक्रियाभिः बटुकान् संस्कृतभाषया सह संयोजयितुं प्रयासः करिष्यते।

Hindusthan Samachar / Divya Ranjan