वैद्यकीयमहाविद्यालयनिर्माणार्थ संघर्षसमितेः मुख्यमन्त्रिणा सह अद्य वार्ता
नवटिहरी, २३ अगस्तमासः (हि.स.)। नवटिहर्यां वैद्यकीयमहाविद्यालयस्य निर्माणं प्रति गठिता संयुक्तसंघर्षसमितिः सोमवासरे (अद्य) अस्मिन् विषये मुख्यमन्त्रिणा पुष्करसिंहधामिना सह मेलनं करिष्यति। वार्तायै भाजपाजन-पदाध्यक्षः उदयरावतः क्षेत्रीयविधायकः किशोरउप
फोटो-23एनटीएच01 नई टिहरी के बौराड़ी में पत्रकार वार्ता करते संयुक्त संघर्ष समिति के पदाधिकारी।


फोटो-23एनटीएच02 नई टिहरी के बौराड़ी में क्रमिक अनशन करते बार एसोसिएशन के सदस्य।


नवटिहरी, २३ अगस्तमासः (हि.स.)। नवटिहर्यां वैद्यकीयमहाविद्यालयस्य निर्माणं प्रति गठिता संयुक्तसंघर्षसमितिः सोमवासरे (अद्य) अस्मिन् विषये मुख्यमन्त्रिणा पुष्करसिंहधामिना सह मेलनं करिष्यति। वार्तायै भाजपाजन-पदाध्यक्षः उदयरावतः क्षेत्रीयविधायकः किशोरउपाध्यायश्च मध्यस्थतां कृतवन्तौ।

रविवासरे बौराडी इत्यत्र आयोजिते पत्रकारसम्मेलने समितेः संयोजकः डॉ. राकेशभूषणगोदियालः, वरिष्ठपत्रकारः महीपालनेगी, पालिकाध्यक्षः मोहन-सिंहरावतश्च अवदन् यत् मुख्यमन्त्रिणा घोषितासु योजनासु अन्तर्भूतः अयं प्रकल्पः टिहरीजनपदाय महत्त्वपूर्णः अस्ति। अस्य निर्माणं प्रति जुलैमासस्य ३१ दिनाङ्के अगस्तमासस्य १६ दिनाङ्के च द्वे बृहत्यौ जनसभायात्रे आयोजिते, आन्दोलनं च प्रचलति। शासनस्तरेऽपि अस्य विषये प्रयासाः प्रचलन्ति इति ते उक्तवन्तः।

मुख्यमन्त्रिणा धामिना जनभावनानुरूपम् अत्र वैद्यकीयमहाविद्यालयं निर्मापयि-ष्यतीति अपेक्षा अस्ति। प्रायः १४ जनानां शिष्टमण्डलं मुख्यमन्त्रिणा सह मिलिष्यति। तैः आग्रहः कृतः यत् बैठके स्वास्थ्य-मन्त्री, स्वास्थ्यसचिवः, चिकित्सा-शिक्षासचिवः टीएचडीसी-संस्थायाः प्रतिनिधिश्च अपि उपस्थिताः भवेयुः, येन सर्वाः वस्तुस्थितयः स्पष्टाः भवेयुः। यदा सर्वकारेण निर्माणाभिकरणं निश्चितम् अस्ति, तदा कापि समस्या न भवेत् इति समित्या उक्तम्।

समितिः जनपदचिकित्सालयं आधार-चिकित्सालयरूपेण विकसितुं, सीसीयू-केन्द्रस्य स्थापनां तथा अन्यासु मागेषु च मुखररूपेण वार्तां करिष्यति। इतः परं गणेशचतुष्पथे उक्तमागं प्रति प्रचलितस्य आन्दोलनस्य अन्तर्गतं बार-असोसिएशन इत्यस्य अध्यक्षः जयवीररावतः, शान्तिप्रसादभट्टः, खेमराजसेमवालः, मुकेशकुमाईं, लक्ष्मीबडोनी च क्रमिकानशनम् आचरन्तः स्थिराः आसन्।

Hindusthan Samachar / Divya Ranjan