अस्मिन्वर्षे जुलाईमासं यावत् हिमाचलं प्राप्नोत् 1.06 कोटिपर्यटकाः, गतवर्षे 3.11 कोटिसंख्यकैः कृतं भ्रमणम्
शिमला, 23 अगस्तमासः (हि.स.)। हिमाचलप्रदेशे पर्यटनव्यवसायः निरन्तरं बहुसङ्ख्यकेभ्यः आगच्छद्भ्यः पर्यटकेभ्यः आश्रितः अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् २०२५ तमे वर्षे जनवरीमासात् दिसम्बरमासपर्यन्तं प्रदेशे ३.११ कोटिपर्यटकाः आगतवन
शिमला में पर्यटक


शिमला, 23 अगस्तमासः (हि.स.)।

हिमाचलप्रदेशे पर्यटनव्यवसायः निरन्तरं बहुसङ्ख्यकेभ्यः आगच्छद्भ्यः पर्यटकेभ्यः आश्रितः अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् २०२५ तमे वर्षे जनवरीमासात् दिसम्बरमासपर्यन्तं प्रदेशे ३.११ कोटिपर्यटकाः आगतवन्तः। एतेषु १.६६ कोटिपर्यटकाः धार्मिकपर्यटकाः आसन्। २०२६ तमे वर्षे जुलाईमासपर्यन्तमेव १.०६ कोटिपर्यटकाः हिमाचलप्रदेशस्य भ्रमणं कृतवन्तः। मुख्यमन्त्रिणा एतत् विवरणं रविवासरे उत्तरप्रदेशस्य वाराणस्यां फेडरेशन आफ होटल एण्ड रेस्टोरेण्ट एसोसिएशन आफ इण्डियायाः षट्पञ्चाशत्तमे वार्षिकसम्मेलने प्रस्तुतम्। तेन देशस्य सर्वेभ्यः भागेभ्यः होटलव्यवसायिभ्यः, यात्रानिमित्तप्रतिनिधिभ्यः, पर्यटनयात्रासञ्चालकेभ्यश्च हिमाचलप्रदेशस्य नवीनानां न्यूनप्रसिद्धानां च पर्यटनस्थलानां स्वकीयेषु पर्यटनयात्रापुटकेषु समावेशं कर्तुम् आग्रहः कृतः।

मुख्यमन्त्रिणा उक्तं यत् पर्यटकानां रुचौ परिवर्तनं भवति। अधुना बहुसङ्ख्यकाः जनाः केवलं प्रसिद्धानां पर्यटनस्थलानां भ्रमणस्य स्थाने शान्तेः, प्रकृतेः, स्थानीयसंस्कृतेः, खानपानस्य, स्वास्थ्यस्य, ग्राम्यजीवनशैल्याः च अनुभवम् इच्छन्ति। हिमाचलप्रदेशे एतादृशस्य पर्यटनस्य पर्याप्ताः सम्भावनाः सन्ति। तेन उक्तं यत् राज्यस्य शान्ताः सुरक्षिताश्च उपत्यकाः, स्वच्छवायुः, प्राकृतिकजलस्रोतांसि, हिमाच्छादिताः पर्वताः, वनानि, समृद्धा सांस्कृतिकपरम्परा च पर्यटकेभ्यः विशिष्टम् अनुभवं दातुं शक्नुवन्ति। मार्गस्य, विद्युतः, जलस्य, अङ्कीयसम्पर्कस्य च सुधारणेन अनेकानां दूरवर्तिनां क्षेत्राणां यावत् प्राप्तिः अपि श्रेष्ठतरा जाता। सर्वकारः अनुभवाधारितपर्यटनस्य सह कारवाँपर्यटनं सप्ताहान्तपर्यटनं च प्रोत्साहयति। ग्रामीणपर्यटनाय होमस्टेयोजना होमस्टेनियमाः च २०२५ इति वर्षे प्रवर्तिताः, येन स्थानीयजनानां कृते रोजगारस्य स्वव्यवसायस्य च अवसराः प्राप्स्यन्ते इति आशा अस्ति।

पर्यटनाधारभूतसंरचनां सुदृढां कर्तुं काङ्गडाविमानस्थानकस्य विस्तारस्य प्रक्रिया प्रारब्धा अस्ति। तस्य समीपे एअरोसिटी इति नगरस्य विकासस्य योजना अस्ति। काङ्गडां प्रदेशस्य पर्यटनराजधानीरूपेण विकसितुं दिशि अपि कार्यं प्रचलति। सर्वकारेण प्रत्येकस्मिन् जिलामुख्यालये तस्य समीपे वा हेलीपोर्टस्य विकासस्य निर्णयः कृतः अस्ति। मुख्यमन्त्रिणः अनुसारं तेन पर्यटकानां आवागमनं सुगमं भविष्यति, आपदाप्रबन्धने, आपत्कालीनचिकित्सासेवासु, दूरवर्तिक्षेत्राणां यावत् पहुँचेषु च सहायता भविष्यति।

सर्वकारः महिलानां कृते सुरक्षितपर्यटनं प्रोत्साहयितुं शी ट्रैवल इति नीतिं सज्जीकरोति। महिलाः होमस्टे, स्थानीयभोजन, हस्तशिल्प, स्थानीयउत्पाद, पर्यटनसम्बद्धेषु नवोद्यमेषु च माध्यमेन रोजगारस्य स्वव्यवसायस्य च अवसरैः संयोजयितुं विशेषं बलं दीयते। हिमाचलप्रदेशे पदयात्रा, हिमक्रीडा, पैराग्लाइडिङ्ग, नदीजलयानक्रीडा, पर्वतारोहण, शिविरस्थापनम्, पर्वतीयसाइकिलचालनं, जलक्रीडा च इत्यादीनां साहसिकपर्यटनस्य अपि महती सम्भावना अस्ति। बीडबिलिङ्गप्रदेशेन पैराग्लाइडिङ्गक्षेत्रे राज्याय अन्तरराष्ट्रीयपरिचितिः प्राप्ता अस्ति।

मुख्यमन्त्रिणा पर्यटनविकासेन सह पर्यावरणस्य स्थानीयपरम्परायाः च संरक्षणे अपि बलं दत्तम्। तेन उक्तं यत् सर्वकारः स्थायिपर्यटनं उत्तरदायित्वपूर्णपर्यटनं च प्रोत्साहयति, येन पर्यटनात् प्राप्तः आर्थिकलाभः स्थानीयसमुदायान् यावत् प्राप्नुयात् तथा प्राकृतिकसंसाधनेषु दबावः नियन्त्रितः तिष्ठेत्। राज्ये धार्मिकं आध्यात्मिकं च पर्यटनम् अपि महत्त्वपूर्णम् अस्ति। प्रमुखाः शक्तिपीठाः, ऐतिहासिकमन्दिराणि, बौद्धविहाराः, गुरुद्वाराश्च देशविदेशेभ्यः श्रद्धालून् आकर्षयन्ति। सुक्खुना होटलव्यवसायिभ्यः आतिथ्यक्षेत्रसम्बद्धेभ्यः, यात्रानिमित्तप्रतिनिधिभ्यः, पर्यटनयात्रासञ्चालकेभ्यः पर्यटनक्षेत्रसम्बद्धेभ्यश्च अन्येभ्यः जनभ्यः सहकारेण नूतनानां पर्यटनस्थलानां प्रचारप्रसारं कर्तुम् आह्वानं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani