जौलीग्राण्ट-विमानस्थानके मुख्यमन्त्रिणा धामीना शिवराजसिंहचौहानस्य स्वागतं कृतम्
देहरादूनम्, २३ अगस्तमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी रविवासरे केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंह-चौहानस्य जौलीग्राण्ट-विमानस्थानकं प्राप्तस्य स्वागतं अभिनन्दनं च कृतवान्। मुख्यमन्त्रिणा केन्द्रीयमन्त्रिण
मुख्यमंत्री पुष्कर सिंह धामी केंद्रीय कृषि मंत्री शिवराज सिंह चौहान का स्वागत करते हुए।


देहरादूनम्, २३ अगस्तमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी रविवासरे केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंह-चौहानस्य जौलीग्राण्ट-विमानस्थानकं प्राप्तस्य स्वागतं अभिनन्दनं च कृतवान्।

मुख्यमन्त्रिणा केन्द्रीयमन्त्रिणः देवभूमेः उत्तराखण्डस्य धरातले हार्दिकं स्वागतं कुर्वता तस्मै प्रदेशस्य पक्षतः शुभकामनाः प्रदत्ताः। अस्मिन् अवसरे मुख्यमन्त्रिणा धामिना केन्द्रीयमन्त्रिणा चौहानेन सह प्रदेशे कृषेः, कृषककल्याणस्य, ग्रामीणविकासस्य च सम्बद्धेषु विविधेषु विषयेषु संक्षिप्तः विचारविनिमयः अपि कृतः।

अस्मिन् मेलनावसरे उभौ नेतारौ कृषकैः ग्रामीणक्षेत्रैश्च सम्बद्धेषु विषयेषु विचार-विमर्शं कृतवन्तौ।

Hindusthan Samachar / Divya Ranjan