Enter your Email Address to subscribe to our newsletters


मुख्यमन्त्री धामी अवदत्—‘एकराष्ट्रम्-एकनिर्वाचनम्’ इति विषयः राष्ट्रहितेन, सुशासनेन जनकल्याणेन च सम्बद्धः
हरिद्वारम्, २३ अगस्तमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याण-ग्रामीण-विकासमन्त्री शिवराजसिंहचौहानः ‘एक-राष्ट्रम्-एकनिर्वाचनम्’ इत्यस्य आवश्यकतायाः विषये बलं दत्त्वा तत् देशहिताय आवश्यकम् इति प्रतिपाद्य सन्तसमाजम् ‘एकराष्ट्रम्-एकनिर्वाचनम्’ इत्यस्य पक्षे जनजागरणं कर्तुं आहूतवान्।
हरिद्वारस्य प्राचीन-अवधूतमण्डल-आश्रमस्य रविवासरे आयोजिते सन्त-समागमकार्यक्रमे केन्द्रीयमन्त्री शिवराज-सिंहचौहानः सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरे तेन उक्तं यत् देशे पुनः पुनः भवद्भिः निर्वाचनैः विकासस्य निरन्तरगतिः बाधिता भवति। निर्वाचन-प्रक्रियायां समयस्य, धनस्य, प्रशासनिक-संसाधनानां च महदंशः व्ययितः भवति। पुनः पुनः निर्वाचनानि भवन्ति चेत् प्रशासनिकयन्त्रणा निर्वाचनसज्जतायां नियोजिता भवति, यदा शिक्षकाः, आरक्षिकाः अन्ये कर्मचारिण: च निर्वाचन-कर्तव्येषु नियुक्ताः भवन्ति। अनेन विकासस्य जनकल्याणस्य च कार्याणि प्रभावितानि भवन्ति।
तेन उक्तं यत् यदि लोकसभानिर्वाचनानि विधानसभानिर्वाचनैः सह एककाले आयोज्येरन् तर्हि संसाधनानां समयस्य च रक्षणं भविष्यति तथा प्रशासनस्य अधिकं ध्यानं विकासकार्येषु केन्द्रितुं शक्यते। तेन प्रधानमन्त्रिण: नरेन्द्रमोदिनः ‘एकराष्ट्रम्-एकनिर्वाचनम्’ इति सङ्कल्पस्य समर्थनं कुर्वता उक्तं यत् एतत् केवलं कस्यचित् राजनैतिकदलस्य विषयः न, अपि तु सम्पूर्णदेशेन सम्बद्धः विषयः अस्ति। देशः प्रथमः अस्ति, राजनीतिकदलानि ततः परम्।
केन्द्रीयमन्त्रिणा उक्तं यत् सन्त-महात्मनां समाजे व्यापकः स्वीकारः प्रभावश्च अस्ति। यदि सन्ताः स्वप्रवचनैः संवादैश्च अस्मिन् विषये जनान् जागरूकान् करिष्यन्ति तर्हि एषः विचारः जनं जनं प्रति प्रापयितुं शक्यते। तेन उक्तं यत् देशहिताय क्रियमाणस्य अस्य संवैधानिकपरिवर्तनस्य कृते व्यापकं जनसमर्थनम् आवश्यकम् अस्ति।
केन्द्रीयमन्त्रिणा ‘वन्देमातरम्’ इत्यस्य पूर्णस्वरूपस्य समर्थनस्य आह्वानमपि कृतम्। तेन उक्तं यत् वन्देमातरम् देशभक्तेः राष्ट्रियैकतायाश्च प्रतीकम् अस्ति। तेन सन्तसमाजम् आग्रहः कृतः यत् ते स्वप्रवचनानां माध्यमेन जनानां मनसि राष्ट्रभावनां एकताभावनां च सुदृढां कुर्वन्तु।
मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् ‘एकराष्ट्रम्-एकनिर्वाचनम्’ राजनैतिक-विषयः न, अपि तु राष्ट्रहितेन, सुशासनेन, जनकल्याणेन, देशस्य संसाधनानां श्रेष्ठोपयोगेन च सम्बद्धः राष्ट्रियविषयः अस्ति। भारतं विश्वस्य बृहत्तमं लोकतन्त्रम् अस्ति तथा निर्वाचनानि लोकतन्त्रस्य महत्त्वपूर्णः उत्सवः सन्ति, किन्तु निरन्तरं चलमाना निर्वाचनप्रक्रिया शासनस्य विकासकार्याणां च उपरि अपि प्रभावं जनयति।
तेन उक्तं यत् पुनः पुनः निर्वाचनेषु आदर्शाचारसंहिता प्रवर्तते तथा च बहुसंख्याकाः प्रशासनिकाधिकारिणः, शिक्षकाः, आरक्षिकाः, सुरक्षाबलानि च निर्वाचनसम्बद्धेषु दायित्वेषु नियुक्तानि भवन्ति। एवं यदि एककाले निर्वाचनानुष्ठानेन सार्वजनिकधनस्य संसाधनानां च रक्षणं भवति तथा प्रशासनाय जनसेवायै विकासकार्येभ्यश्च अधिकः समयः लभते, तर्हि एतत् लोकतान्त्रिकव्यवस्थां अधिकं प्रभावी सुव्यवस्थितां च कर्तुं दिशि महत्त्वपूर्णं पदं भविष्यति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘एकराष्ट्रम्-एकनिर्वाचनम्’ इति विषयं राष्ट्रियविमर्शस्य केन्द्रे आनयन् तत् अग्रे वर्धयितुं दिशि महत्त्वपूर्णं प्रयत्नं कृतवान्। विकसितभारत-२०४७ इति सङ्कल्पं साकारयितुं विकासस्य निरन्तरगतिः आवश्यकी अस्ति। शासनस्य अधिकतमः समयः रोजगारस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूतसंरचनायाः, जन-कल्याणस्य च कार्येषु विनियोक्तव्यः।
तेन सन्त-महात्मभ्यः अस्मिन् विषये समाजस्य मार्गदर्शनं कर्तुम् आग्रहः कृतः। तेन उक्तं यत् भारतस्य सनातनपरम्परायां सन्तसमाजेन सदैव राष्ट्राय समाजाय च दिशाप्रदानस्य कार्यं कृतम् अस्ति। अस्माकं सङ्कल्पः सुदृढलोकतन्त्रस्य, निरन्तर-विकासस्य, सुरक्षितसंस्कृतेः, राष्ट्रस्य सर्वोपरिस्थापनस्य च अस्ति।
Hindusthan Samachar / Divya Ranjan