Enter your Email Address to subscribe to our newsletters

औरैया, २३ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य औरैयाजनपदे समाजसेवी-संघटनस्य ‘एक विचित्र पहल सेवा समिति रजि.’ इत्यस्य पक्षतः पर्यावरणसंरक्षणं प्रति ‘जीवनधारा’ वृक्षारोपणाभियानं सञ्चा-ल्यते। अस्य अन्तर्गतं रविवासरे महामाया-मङ्गला-कालीमन्दिरस्य प्रदक्षिणामार्गे स्थिते प्राचीनस्य अर्धनारीश्वर-महादेवमन्दिरस्य परिसरे बृहद् वृक्षारोपणं कृतम्। अभियानसमितेः अध्यक्षस्य राजीव-पोरवालस्य नेतृत्वे प्रातः सप्तवादने कार्यक्रमः आयोजितः।
नगरात् प्रायः पञ्चकिलोमीटर् दक्षिणदिशायां बीहडक्षेत्रे स्थितस्य महामाया-मङ्गला-कालीमन्दिरस्य प्रदक्षिणामार्गे, अर्धनारीश्वरमहादेव-मन्दिर-परिसरे तथा मङ्गला-कालीमन्दिर-प्राङ्गणे च कदम्, चितवन, पकड़िया, चाँदनी, हरसिङ्गार, गुडहल, पीपल, वटवृक्ष, अशोक, बिल्वपत्रवृक्षादीनां विविधप्रजातीनां पादपाः रोपिताः। पादपानां संरक्षणस्य सुरक्षायाश्च दायित्वं समितेः सदस्येभ्यः समर्पितम्।
वृक्षारोपणानन्तरं पर्यावरणसंरक्षणविषये गोष्ठी आयोजिता। समितेः संस्थापकः अधिवक्ता आनन्दनाथगुप्तः अवदत् यत् प्राकृतिकरूपेण वर्षणस्य भवने वृक्षाणां पादपानां च महत्त्वपूर्णा भूमिका भवति। वृक्षाः पादपाश्च वाष्पोत्सर्जनप्रक्रियया भूमेः जलं गृहीत्वा वातावरणे जलवाष्पं मुञ्चन्ति, येन वायुमण्डले आर्द्रता वर्धते तथा वर्षाचक्रस्य सक्रियकरणे सहायता भवति।
गोष्ठ्यां पर्यावरणप्रेमिभिः जनान् पादपानां महत्त्वं प्रति जागरूकान् कुर्वद्भिः अधिकाधिकं वृक्षारोपणं कर्तुं रोपित-पादपानां नियमितरूपेण संरक्षणं च कर्तुम् आग्रहः कृतः। संस्थापकेन उक्तं यत् अभियानस्य निर्धारितलक्ष्यस्य तुलनायां सम्प्रति ४२४० पादपानां वृक्षारोपणं वितरणं च कृतम् अस्ति। समित्या ५१०० पादपानां लक्ष्यं निर्धारितम् अस्ति, यत् पूर्णं यावत् अभियानं प्रचलिष्यति। जनानां पसन्दानुसारं पादपानामपि वितरणं करिष्यते।
अस्मिन् अवसरे अध्यक्षः राजीवपोरवालः, पर्यावरणप्रहरी मनीषपुरवारः , अनिल-कुमारसोनी, सञ्जयअग्रवालः, राम-आसरेगुप्तः, सन्तोषकुशवाहः, विपुल-कुमारः, सतीशकुमारः तथा संस्थापकः अधिवक्ता आनन्दनाथगुप्तः इत्यादयः अन्ये च पर्यावरणप्रेमिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan