एफएचआरएआई अधिवेशनस्य उद्देश्यं, देशस्य पर्यटनाय नवदिङ् देया : मुख्यमंत्री सुखविन्द्र सिंह सुक्खूः
वाराणसी, 23 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे नदेसरस्थे होटल ताज गैङ्गेजे फेडरेशन आफ होटल एवं रेस्टोरेण्ट एसोसिएशन आफ इण्डियायाः षट्पञ्चाशत्तमे वार्षिकाधिवेशनस्य अन्तिमदिने रविवासरे हिमाचलप्रदेशस्य मुख्यमन्त्री ठाकुरः सुखविन्दरसिंहसु
मुख्यमंत्री सुक्खू का स्वागत करते अध्यक्ष सुरेंद्र जायसवाल


वाराणसी, 23 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसीजनपदे नदेसरस्थे होटल ताज गैङ्गेजे फेडरेशन आफ होटल एवं रेस्टोरेण्ट एसोसिएशन आफ इण्डियायाः षट्पञ्चाशत्तमे वार्षिकाधिवेशनस्य अन्तिमदिने रविवासरे हिमाचलप्रदेशस्य मुख्यमन्त्री ठाकुरः सुखविन्दरसिंहसुक्खुः सम्मिलितः। सः पत्रकारैः सह वार्तालापं कुर्वन् उक्तवान् यत् अनन्तकाशी इत्यस्य भावनया आयोजितस्य अस्य अधिवेशनस्य उद्देश्यम् भारतस्य आध्यात्मिकतां संस्कृतिं खानपानं हस्तशिल्पं आतिथ्यं च आधुनिकपर्यटनस्य सम्भावनाभिः सह संयोज्य देशस्य पर्यटनस्य आतिथ्यक्षेत्रस्य च कृते नवीनां दिशां प्रदातुम् अस्ति।

हिमाचलप्रदेशस्य अपारपर्यटनसम्भावनाः प्रस्तुत्य मुख्यमन्त्रिणा उक्तं यत् देवभूमेः समृद्धसंस्कृतिः, हिमालयस्य अनुपमा प्राकृतिकसुषमा, हिमाचलीधाम सिड्डू इत्यादीनि पारम्परिकव्यञ्जनानि, लोककलाः, हस्तशिल्पम् आत्मीयातिथ्यसत्कारश्च अस्माकं विशिष्टपरिचयः सन्ति। अधिवेशने पर्यटनस्य आतिथ्यक्षेत्रस्य च येषां सम्भावनानां नवीनानां च आयामानां विषये चर्चा प्रचलति, तेषु हिमाचलप्रदेशस्य कृते अपाराः अवसराः सन्ति।

अधिवेशनस्थले मुख्यमन्त्रिणः ठाकुरस्य सुखविन्दरसिंहसुक्खोः प्राप्तिसमये फेडरेशन आफ होटल एवं रेस्टोरेण्ट एसोसिएशन आफ इण्डियायाः अध्यक्षः सुरेन्द्रजायसवालः पुष्पगुच्छं समर्प्य तस्य स्वागतं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani