Enter your Email Address to subscribe to our newsletters

पुस्तकं महिलानां उपलब्धीनां गौरवं करोति
वाराणसी, २३ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदस्थे काशी-हिन्दूविश्वविद्यालयस्य आणविक-मानव-आनुवंशिकीविभागस्य प्राध्यापिका गीतारायायै डॉ. मनीषाचार्यया लिखिते ‘भारतस्य पुत्री’ फ्रॉम लैब टू कॉर्नर ऑफिस इति पुस्तके स्थानं प्रदत्तम् अस्ति।
नवदिल्ली इत्यत्र आयोजिते पुस्तक-विमोचनसमारोहे केन्द्रीयसूक्ष्म-लघु-मध्यमोद्यममन्त्री जीतनराममाञ्झी मुख्यातिथिरूपेण उपस्थितः आसीत्।
एतत् वृत्तान्तं रविवासरे बीएचयू-विश्वविद्यालयस्य जनसम्पर्काधिकारिणा प्रदत्तम्। तेन उक्तं यत् इदं पुस्तकं स्टेम् (विज्ञानं, प्रौद्योगिकी, अभियान्त्रिकी, गणितं च) क्षेत्रे कार्यरतासां तासां महिलानां उपलब्धीनां गौरवं करोति, याः पारम्परिकशैक्षणिकव्यावसायिकमार्गेभ्यः अग्रे गत्वा स्ववैज्ञानिकज्ञानं, विचारान्, नवाचारांश्च उद्यमितायां, नेतृत्वे, सामाजिकप्रभावे च परिणमितवत्यः सन्ति।
नवदिल्ली इत्यत्र आयोजिते अस्मिन् कार्यक्रमे आईएएस् भरत एच. खेडा, एमएसएमई-मन्त्रालयस्य सचिवः, डॉ. अनितागुप्ता, श्रद्धाशर्मा इत्यादयश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan