Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, २३ अगस्तमासः (हि.स.)। धर्मनगरी हरिद्वारस्य हरकी पैडी इत्यत्र रविवासरे मुल्तानज्योतिमहोत्सवः महता उत्साहेन श्रद्धया च आचरितः। अस्मिन् अवसरे श्रद्धालुभिः गङ्गया सह दुग्धस्य होलीक्रीडा कृता तथा सप्ताहकालात् प्रज्वलितां पवित्रां ज्योतिं भव्यया शोभा-यात्रया सह गङ्गायां विसर्जितम्।
अखिलभारतीयमुल्तानसङ्गठनस्य अध्यक्षस्य डॉ. महेन्द्रनागपालस्य नेतृत्वे देशस्य विभिन्नेभ्यः राज्येभ्यः बहुसंख्याकाः मुल्तानीसमाजस्य जनाः हरिद्वारम् आगताः आसन्। श्रद्धालवः घटेषु दुग्धं गृहीत्वा हरकी पैडी इत्यत्र समागताः तथा पिचकारिषु दुग्धं पूरयित्वा गङ्गामात्रा सह होलीक्रीडां कृतवन्तः। एतत् अद्भुतं दृश्यं द्रष्टुं घट्टेषु जनानां महान् सम्मर्द: समुपस्थित: आसीत्।
महोत्सवस्य कृते सम्पूर्णं हरिद्वारं विशेषतः हरकी पैडीक्षेत्रं च आकर्षकरूपेण सज्जितम् आसीत्। अस्मिन् अवसरे निष्कासितायां भव्यायां शोभायात्रायां विशेषप्रकाश-व्यवस्था, आतिशबाजी पुष्पवृष्टिश्च कृता, येन सम्पूर्णं वातावरणं दीपावलीमयमिव दृश्यते स्म। अस्मिन् वर्षे आयोजकैः विद्युद्-प्रकाशस्य नूतनां प्रौद्योगिकीम् उपयुज्य विशेषज्योतिः सज्जीकृता आसीत्, या विधिविधानपूर्वकं गङ्गायै समर्पिता।
सङ्गठनस्य अध्यक्षः डॉ. महेन्द्रनागपालः अवदत् यत् अस्याः ऐतिहासिकपरम्परायाः प्रारम्भः १९११ तमे वर्षे अभवत्। पाकिस्तानस्य मुल्ताननगरात् भक्तः रूपचन्दः पद्भ्यां ज्योतिं नीत्वा हरिद्वारम् आगतवान् आसीत् तथा समाजे भ्रातृत्वस्य, शान्तेः, समृद्धेश्च कामनया तां गङ्गायाम् अर्पितवान् आसीत्। तदारभ्य एषा परम्परा निरन्तरं प्रचलिता अस्ति तथा च प्रतिवर्षं महता प्रमाणेन महोत्सवः आचर्यते।
अस्मिन् अवसरे असमस्य पूर्वराज्यपालः जगदीशमुखी, भाजपायाः राष्ट्रीय-महासचिवः राज्यसभासदस्यश्च तरुणचुघः, ओमप्रकाश-अरोरा, रतनदेवचावला, सतपाल-अरोरा इत्यादयः मुल्तानी-समाजस्य अनेके गणमान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan