Enter your Email Address to subscribe to our newsletters

हुगली, २३ अगस्तमासः (हि.स.)। उत्तरपाडाविधानसभाक्षेत्रे मार्गाधार-भूतसंरचनां सुदृढं कर्तुं महत्त्वपूर्णं पदक्षेपं स्वीकृतम् अस्ति। उत्तरपाडा-विधान-सभापरियोजनायाः अन्तर्गतं कुलं ४८ किलोमीटर्-परिमितस्य मार्गस्य विस्तृत-परियोजनाविवरणपत्रं अनुमोदितम् अस्ति।
परियोजनायाः अन्तर्गतं ४० किलोमीटर-परिमितस्य मार्गस्य निर्माणकार्यं कोलकाता-महानगर-विकास-प्राधि-करणस्य माध्यमेन करिष्यते, यत् सम्पूर्णपरियोजनायाः ८३.३ प्रतिशतं भवति। अपरतः ८ किलोमीटर्-परिमिते मार्गे क्षतिग्रस्तभागानां निर्माणं आधारभूत-संरचनायाः पुनर्स्थापनं च करिष्यते, यस्य भागः १६.७ प्रतिशतं भवति।
उत्तरपाडायाः विधायकः दीपाञ्जनचक्रवर्ती शनिवासरस्य रात्रौ अवदत् यत् परियोजनायाः उद्देश्यं क्षेत्रे मार्गाणां स्थितेः सुधारः, सुरक्षितं स्थायि च उत्तममार्गसम्पर्कं सुनिश्चितं करणं च अस्ति। मार्गनिर्माणेन क्षतिग्रस्तभागानां मरम्मतेन च स्थानीय-जनानां आवागमने सुविधा भविष्यतीति अपेक्षा अस्ति।
परियोजनासम्बद्धे सन्देशे उत्तममार्गाणां निर्माणे तथा श्रेष्ठभविष्याय सुदृढमार्ग-सम्पर्कस्य विकासे विशेषं बलं प्रदत्तम् अस्ति।
Hindusthan Samachar / Divya Ranjan