बङ्गाले ३५००-कोटिरूप्यकाणां रक्षापरियोजनानां शुभारम्भः, रक्षामन्त्रिणा राजनाथसिंहेन मुख्यमन्त्रिणा च आधारशिलास्थापनम्
कोलकाता, २३ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः मुख्यमन्त्री शुभेन्द्वधिकारी च रविवासरे पश्चिमबङ्गाले गार्डन रीच शिपबिल्डर्स् एण्ड् इञ्जिनियर्स् तथा यन्त्र इण्डिया लिमिटेड् इत्येतयोः पञ्चानां विस्तारपरियोजनानां आधारशिलां स्थापितवन्तौ। प्राय
जीआरएसई के कार्यक्रम में रक्षा मंत्री राजनाथ सिंह और मुख्यमंत्री शुभेंदु अधिकारी


कोलकाता, २३ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः मुख्यमन्त्री शुभेन्द्वधिकारी च रविवासरे पश्चिमबङ्गाले गार्डन रीच शिपबिल्डर्स् एण्ड् इञ्जिनियर्स् तथा यन्त्र इण्डिया लिमिटेड् इत्येतयोः पञ्चानां विस्तारपरियोजनानां आधारशिलां स्थापितवन्तौ। प्रायः ३५०० कोटि-रूप्यकाणां व्ययेन क्रियमाणाभिः एताभिः परियोजनाभिः राज्ये रक्षोत्पादन-क्षमतायाः वृद्धिः, पोतनिर्माण-क्षेत्रस्य सुदृढीकरणं, औद्योगिकविकासस्य च गतिवर्धनं भविष्यतीति अपेक्षा अस्ति।

रक्षामन्त्रिणा देशस्य सुरक्षायै युद्धपोतानां, समुद्रीयपोतानां तथा अन्येषां समुद्रीय-मञ्चानां निर्माणे आत्मनिर्भरता महत्त्वपूर्णा इति प्रतिपादितम्। तेन उक्तं यत् भारतस्य वैश्विकपोतनिर्माणकेन्द्रत्वं प्राप्तुं क्षमता अस्ति। एतदर्थं देशे पोतनिर्माण-क्षमतायाः वर्धनं, स्वदेशीयविनिर्माणस्य सुदृढीकरणं, रक्षोत्पादने आत्मनिर्भरता च वर्धयितुं आवश्यकता अस्ति।

राजनाथसिंहेन गुणवत्तायाः, समये आपूर्तेः, उत्तम-रक्षणसम्भरण-मरम्मतसेवानां च रक्षोत्पादनस्य सफलतायै आवश्यकत्वं प्रतिपादितम्। तेन उक्तं यत् भारतीय-सशस्त्रबलेषु स्वदेशीय-रक्षोत्पादानाम् उपयोगः निरन्तरं वर्धमानः अस्ति, यः देशस्य रक्षोद्योगस्य वर्धमानां क्षमतां प्रदर्शयति।

रक्षामन्त्रिणा जी.आर.एस.ई. इत्यस्य योगदानस्य उल्लेखं कुर्वता उक्तं यत् निर्माण्या विगतेषु वर्षेषु शताधिकानां पोतानां आपूर्तिः कृता अस्ति तथा च भविष्ये भारतस्य पोतनिर्माणमहत्त्वाकाङ्क्षायां सा महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। तेन एतदपि सूचितं यत् जी.आर.एस.ई. जर्मनीदेशाय एकस्य मालवाहकपोतस्य निर्माणं करोति, यत् भारतीयपोत-निर्माणक्षमतायाः वर्धमानस्य वैश्विक-स्वीकारस्य सूचकः अस्ति।

जी.आर.एस.ई. इत्यस्य त्रिभिः परियोजनाभिः पोतनिर्माणस्य आधारभूत-संरचनायाश्च क्षमता वर्धयिष्यते। निर्माण्या कोलकातानगरस्य श्यामा प्रसाद मुखर्जी-पत्तनस्य समीपे हुगलीनद्याः उभयतीरयोः द्वयोः लघुपोतनिर्माणकेन्द्रयोः तथा रायचके द्वात्रिंशदेकडमितायाः नदीतीरस्थभूमेः कृते पट्टासन्धय: कृताः सन्ति। एताभिः सुविधाभिः युद्धपोतानां निर्माणं, लघुमध्यमाकाराणां वाणिज्यिकपोतानां निर्माणं कर्तुं क्षमता वर्धिष्यते।

एतासां परियोजनानां कृते भूमिपूजन-कार्यक्रमः खिदिरपुरे, शालीमारे, रायचके ईशापुरे च एकस्मिन् काले आयोजितः।

ईशापुरस्थितस्य यन्त्र इण्डिया लिमिटेड् इत्यस्य धातु-इस्पात्-निर्माण्यौ द्वयोः नूतनयोः सुविधयोः कृते ७५० कोटिरूप्यकेभ्यः अधिकस्य धनस्य निवेशः करिष्यते। आधुनिक-औद्योगिक-प्रौद्योगिक्या ऊर्जादक्षप्रणालीभिश्च युक्ताभिः एताभिः सुविधाभिः उच्चस्तरीय-विनिर्माणक्षमतायाः वर्धनं, आयात-निर्भरत्वस्य न्यूनीकरणं तथा रक्षाक्षेत्रस्य, रेलक्षेत्रस्य, सामरिकक्षेत्राणां च आवश्यकतानां पूरणं कर्तुं साहाय्यं भविष्यति।

राजनाथसिंहेन यन्त्र इण्डिया लिमिटेड् इत्यस्य रक्षोत्पादनस्य सहैव अनुसन्धान-विकासस्य उन्नतधातुकर्मणश्च क्षेत्रयोः विस्तारस्य प्रशंसा कृता। तेन उक्तं यत् अनेन सामरिकविनिर्माणक्षमता सुदृढा भविष्यति तथा च देशस्य आयातनिर्भरत्वं न्यूनीकर्तुं साहाय्यं भविष्यति।

रक्षामन्त्रिणा उक्तं यत् पश्चिमबङ्गाले एतासां परियोजनानां शुभारम्भः औद्योगिकविकासस्य नूतनचरणस्य दिशि महत्त्वपूर्णं पदम् अस्ति। अनेन निवेशस्य, रोजगारस्य, आर्थिकविकासस्य च नूतनाः अवसराः उत्पत्स्यन्ते। तेन आन्तरिक-सुरक्षासम्बद्धेषु विषयेषु राज्यसर्वकारस्य सहयोगस्य अपि प्रशंसा कृता तथा च पश्चिमबङ्गाले विकासस्य नूतना गतिः आगमिष्यतीति विश्वासः प्रकटितः।

मुख्यमन्त्रिणा शुभेन्दु-अधिकारीणा केन्द्र-राज्ययोः सहयोगः पश्चिमबङ्गालस्य विकासाय महत्त्वपूर्णः इति प्रतिपादितम्। तेन आशा प्रकटिता यत् उत्तमसमन्वयेन राज्यस्य औद्योगिकस्य आर्थिकस्य च विकासस्य गतिः अधिकं वर्धिष्यते।

सर्वकारानुसारम् एताभिः परियोजनाभिः प्रत्यक्षरोजगारस्य अवसराः वर्धिष्यन्ते, रक्षाक्षेत्रसम्बद्धानाम् सहायकैककानां सूक्ष्म-लघु-मध्यम-उद्यमानां च लाभः भविष्यति। अनेन पश्चिमबङ्गाले रक्षा-विनिर्माणस्य पोतनिर्माणस्य च औद्योगिकतन्त्रं सुदृढं भविष्यतीति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan