Enter your Email Address to subscribe to our newsletters

हल्द्वानी, २३ अगस्तमासः (हि.स.)। सुदीक्षामहाराजस्य निरंकारीराजपिता-रमितस्य च निर्देशनानुसारं सन्त-निरंकारी-अभियानस्य हरितचेतनां पर्यावरणं प्रति च अविच्छिन्नं समर्पणं निरन्तरं प्रवर्धयन् ‘वननेस वन’ परियोजनायाः सप्तमे चरणे अद्य देशस्य विभिन्नेषु स्थलेषु अनेकानि नवीनानि स्थलानि अस्मिन् जनसहभागिताऽभियाने संयोजिताः। प्रातः षड्वादनात् नववादन-पर्यन्तं शतशः सेवादाराः श्रद्धालवश्च एकत्रिताः भूत्वा वृक्षारोपणस्य माध्यमेन प्रकृतिं प्रति स्वनिष्ठां संरक्षणसङ्कल्पं च पुनः दृढीकृतवन्तः।
सुदीक्षामहाराजस्य मार्गदर्शने वर्षे २०२१ तमे प्रारब्धा ‘वननेस वन’ परियोजना केवलं वृक्षारोपणस्य कार्यक्रमः नास्ति, अपितु प्रकृत्या सह सन्तुलनस्य सह-अस्तित्वस्य च भावनां जागरयितुं महत्त्वपूर्णम् अभियानम् अस्ति। अस्यैव क्रमानुसारं निरंकारी-अभियानस्य हल्दूचौड-हल्द्वानी-शाखया रविवासरे प्रातः षड्वादनात् नववादनपर्यन्तं हल्दूचौड-नगरवनक्षेत्रे लालकुआँ इत्यत्र प्रतापसिंह-बिष्टस्य मार्गदर्शने वृक्षारोपणकार्यक्रमः आयोजितः। तत्र विविधप्रकारकाणां प्रायः १२०० पादपानां रोपणं कृतम्।
मुख्यातिथिना उपवनपालकेन धर्मेन्द्र-मेहराभिः ग्रामप्रधानया च रुक्मिणीनेगिना हल्दूचौड इत्यस्य तत्वावधाने संयुक्तरूपेण पादपाः रोपिताः।
Hindusthan Samachar / Divya Ranjan