Enter your Email Address to subscribe to our newsletters

अजमेरम्, २३ अगस्तमासः (हि.स.)। अमेरिकादेशे आयोजितायां अन्ताराष्ट्रिय-रोबोटिक्स-प्रतियोगितायां विश्वस्तरे प्रथमस्थानं प्राप्य भारतस्य नाम गौरवान्वितवती १४ वर्षीयाः इनाया खान् रविवासरे अजमेरम् आगतवती। विश्वविजेत्री भूत्वा अजमेरम् आगता इनायया ख्वाजा-मोइनुद्दीन-चिश्ती-दरगारे श्रद्धापूर्वकं दर्शनं कृतम्।
सा दर्गाहस्य प्रवेशद्वारे मखमलवस्त्रेण निर्मितं प्रावारं श्रद्धापुष्पाणि च समर्पितवती तथा देशे विदेशे च शान्तेः, सौहार्दस्य, समृद्धेः च कृते प्रार्थितवती। इनायया सह तस्याः परिवारस्य अन्ये सदस्याः अपि दर्गाहशरीफं प्राप्तवन्तः। दर्गाहशरीफस्य खादिमः सय्यद् आकिफ् चिश्ती तस्यै दर्शनं कारितवान्। अस्मिन् अवसरे दरगा-शरीफस्य परम्परानुसारम् ओढन्या आवृत्य इनायायाः स्वागतं कृतम् तथा तस्यै तब्बरुक्-प्रसादः अपि प्रदत्तः। विश्वस्तरे उपलब्धिं प्राप्त्वा दरगाहं प्राप्तायाः इनायायाः मुखे हर्षः उत्साहश्च स्पष्टतया दृश्येते स्म।
इनाया खान् केवलं १४ वर्षस्य वयसि अमेरिकादेशे आयोजितायां ‘रोबोफेस्ट् वर्ल्ड् चैम्पियनशिप्-२०२६’ इत्याख्यायां प्रतियोगितायां भागं गृहीत्वा विश्वस्तरे प्रथमस्थानं प्राप्तवती। तस्याः एषा उपलब्धिः न केवलं परिवारस्य नगरस्य च गौरवं वर्धितवती, अपितु अन्ताराष्ट्रियमञ्चे भारतस्य नाम अपि गौरवान्वितवती। अल्पवयस्येव रोबोटिक्स्-इत्यादृशे प्रौद्योगिकीक्षेत्रे विश्वविजेत्री भूत्वा इनाया युवभ्यः विशेषतः बालिकाभ्यश्च प्रेरणास्रोतः अभवत्। प्रौद्योगिकीयैः शैक्षणिकैश्च उपलब्धिभिः सह इनाया सामाजिक-कार्येष्वपि सम्बद्धा अस्ति। सा ‘बालिकां रक्षत, बालिकां पाठयत’, बालिकाशिक्षायाः सामाजिकजागरूकतायाश्च अभियानेषु सक्रियतया योगदानं ददाति।
इनाया कथयति यत् यदि बालिकाभ्यः शिक्षा अवसराश्च प्राप्यन्ते, तर्हि ताः कस्मिन्नपि क्षेत्रे स्वप्रतिभां प्रदर्शयितुं समर्थाः भवन्ति। दर्गाहशरीफे दर्शनसमये इनायया देशे शान्तेः, भ्रातृभावस्य, समृद्धेः च, समग्रे विश्वे अमन-चैनस्य च कृते प्रार्थना कृता। अस्मिन् अवसरे मोहम्मदजैदः, बेनजीरखान्, सलमाखान्, नजमाखान्, मोहम्मदजुनेदः, मोहम्मद-जाहिदः, जफिरा इत्यादयः परिवारस्य अन्ये सदस्याश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan