ए.आई.आई.ए. संस्थानेन ‘गर्भिणी-मित्र’ पाठ्यक्रमः प्रारब्धः, गर्भावस्थायाः प्रसवोत्तर-परिचर्यायै प्रशिक्षणं प्राप्स्यते
नवदिल्ली, २४ अगस्तमासः (हि.स.)। आयुष्-मन्त्रालयस्य अधीनस्थेन अखिलभारतीय-आयुर्वेद-संस्थानेन २०२६-२७ तमस्य शैक्षणिकसत्रस्य कृते ‘गर्भिणी-मित्र’ इति पाठ्यक्रमः प्रारब्धः। षण्मासात्मकस्य अस्य प्रशिक्षण-कार्यक्रमस्य उद्देश्यं गर्भावस्थायां प्रसवानन्तरं
एआईआईए


नवदिल्ली, २४ अगस्तमासः (हि.स.)। आयुष्-मन्त्रालयस्य अधीनस्थेन अखिलभारतीय-आयुर्वेद-संस्थानेन २०२६-२७ तमस्य शैक्षणिकसत्रस्य कृते ‘गर्भिणी-मित्र’ इति पाठ्यक्रमः प्रारब्धः। षण्मासात्मकस्य अस्य प्रशिक्षण-कार्यक्रमस्य उद्देश्यं गर्भावस्थायां प्रसवानन्तरं च महिलाभ्यः स्वास्थ्यशिक्षां, जीवनशैलीसम्बद्धं मार्गदर्शनं तथा सामुदायिकस्तरे सहायतां प्रदातुं प्रशिक्षितान् कर्मकरान् सज्जीकर्तुम् अस्ति। पाठ्यक्रमे आयुर्वेदस्य ‘गर्भिणी-परिचर्या’, ‘सूतिका-परिचर्या’ (प्रसवोत्तर-परिचर्या) तथा ‘गर्भाधान-विधिः’ (गर्भधारणात् पूर्वं परिचर्या) इत्यादयः अवधारणाः समाविष्टाः सन्ति।

एकस्मिन् वर्गे २० विद्यार्थिनः भविष्यन्ति

ए.आई.आई.ए. इत्यस्य अनुसारम्, अयं प्रत्यक्षरूपेण संचालितः षण्मासात्मकः प्रशिक्षणकार्यक्रमः सोमवासरात् शुक्रवासरपर्यन्तं अपराह्णे ३ वादनतः सायं ५ वादनपर्यन्तं भविष्यति। प्रत्येकस्मिन् वर्गे २० विद्यार्थिनां प्रवेशः भविष्यति। प्रशिक्षणकाले गर्भावस्थायाः विभिन्नेषु चरणेषु आहारः, जीवनशैल्यां परिवर्तनम्, गर्भावस्थायै सुरक्षितं योगाभ्यासः, प्रसवकाले भावनात्मकसहायता, नवजातशिशोः मालिशा तथा प्राथमिक-जीवनरक्षा इत्यादिषु विषये व्यावहारिकं प्रशिक्षणं प्रदास्यते। तदतिरिक्तं संक्रमण-नियन्त्रणम्, स्वच्छता, जैव-चिकित्सकीय-कचरा-प्रबन्धनम् तथा कार्यस्थल-सुरक्षा अपि पाठ्यक्रमस्य भागः कृता अस्ति।

सरिताविहारस्थे ए.आई.आई.ए. परिसरे संचाल्यमानस्य अस्य पाठ्यक्रमस्य कृते कस्यचित् मान्यताप्राप्त-मण्डलात् द्वादशकक्षां उत्तीर्णाः तथा न्यूनातिन्यूनम् अष्टादशवर्षीयाः अभ्यर्थिनः आवेदनं कर्तुं शक्नुवन्ति। ये विद्यार्थिनः द्वादशकक्षायाः परिणामस्य प्रतीक्षां कुर्वन्ति, तेऽपि अस्थायीरूपेण आवेदनं कर्तुं शक्नुवन्ति। पाठ्यक्रमस्य समापनानन्तरं प्रशिक्षिताः अभ्यर्थिनः ‘गर्भिणी-मित्र’ सहायकः, प्रसवपूर्व-प्रसवोत्तर-परिचर्या-सहायकः, प्रसवपूर्व-स्वास्थ्य-मार्गदर्शकः तथा मातृ-स्वास्थ्य-सहायककर्मी इत्यादिरूपेण कार्यं कर्तुं शक्नुवन्ति। आयुष-केन्द्रेषु, मातृत्व-चिकित्सालयेषु, अ-सरकारी-संस्थासु, सामुदायिक-स्वास्थ्य-परियोजनासु तथा स्वास्थ्यसम्बद्धेषु संस्थानेषु रोजगारस्य अवसराः उपलब्धाः भवितुं शक्नुवन्ति।

चिकित्सकीय-परीक्षणस्य विकल्पः नास्ति

ए.आई.आई.ए. स्पष्टतया उक्तवान् यत् ‘गर्भिणी-मित्र’ कार्यक्रमः चिकित्सकीय-प्रसवपूर्व-परिचर्यायाः विकल्पः नास्ति। गर्भवतीनां महिलानां नियमित-स्वास्थ्य-परीक्षणम्, आवश्यकपरीक्षणानि तथा रक्तचापस्य हीमोग्लोबिन इत्यस्य च निरीक्षणम् आवश्यकं भविष्यति। प्रशिक्षिताः ‘गर्भिणी-मित्राः’ संकटसूचकानां लक्षणानां परिचयं कृत्वा महिलाः समये योग्यचिकित्सकस्य समीपं स्वास्थ्यकेन्द्रं वा नेतुं सहाय्यं करिष्यन्ति। आवेदनस्य अन्तिमतिथिः ३१ अगस्त् २०२६ इति अस्ति।

Hindusthan Samachar / Divya Ranjan