Enter your Email Address to subscribe to our newsletters


अमेठी, २४ अगस्तमासः (हि.स.)। श्रावणमासस्य अन्तिमसोमवासरस्य अवसरे जनपदस्य विभिन्नेषु शिवालयेषु प्रातःकालादेव श्रद्धालूनां विशालः जनौघः समागतः। भक्तैः भगवत: भोलेनाथस्य जलाभिषेकं कृत्वा विधिविधानपूर्वकं पूजार्चना कृता तथा च परिवारस्य सुखसमृद्धेः कामना कृता। बहुसंख्यकाः महिलाः व्रतं धृत्वा भगवत: शिवस्य आराधनां कृतवत्यः।
श्रद्धालूनां सुरक्षाव्यवस्थां प्रति आरक्षी-प्रशासनमपि पूर्णतया सज्जं दृश्यते स्म। अस्यैव क्रमे अमेठीजनपदस्य आरक्षी-अधीक्षकः सरवणन् टी. विभिन्नेषु शिवमन्दिरेषु गत्वा सुरक्षाव्यवस्थायाः निरीक्षणं कृतवान्। मुसाफिरखाना-कोतवालीक्षेत्रे स्थिते प्राचीनदण्डेश्वर-धामशिवमन्दिरे प्राप्तवान् आरक्षी-अधीक्षकः शिवभक्तानां पुष्पवृष्ट्या स्वागतं कृतवान्। आरक्षी-अधीक्षकं स्वमध्ये दृष्ट्वा श्रद्धालुष्वपि उत्साहः दृश्यते स्म। आरक्षी-अधीक्षकेन शिवभक्तेषु कृता पुष्पवृष्टेः चलच्चित्रं सामाजिकमाध्यमेषु तीव्रतया प्रसारितम् अस्ति। चलच्चित्रस्य प्रसारणानन्तरं सनातनधर्मावलम्बिभिः श्रद्धालुभिश्च अमेठी-आरक्षी-अधीक्षकस्य अस्य कार्यस्य मुक्तकण्ठेन प्रशंसा क्रियते।
आरक्षी-अधीक्षकः सरवणन् टी. अवदत् यत् श्रावणमासस्य अन्तिमसोमवासरं दृष्ट्वा जनपदस्य प्रमुखेषु शिवमन्दिरेषु व्यापकाः सुरक्षाव्यवस्थाः कृताः आसन्। पुरुषाः महिलाः च आरक्षिकर्मचारिणः मन्दिर-परिसरेण सह समीपस्थेषु क्षेत्रेष्वपि निरन्तरं निरीक्षणं कुर्वन्तः आसन्। श्रावणमासस्य सर्वेषु सोमवासरेषु जनपदस्य विभिन्नेषु शिवालयेषु समागच्छन्तः श्रद्धालूनां विशालः जनौघः किमपि अवरोधं विना शान्तिपूर्वकं नियन्त्रितः। श्रद्धालूनां कस्यापि प्रकारस्य असुविधा न भवेत्, एतदर्थं आरक्षि-कर्मचारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः आसन्।
Hindusthan Samachar / Divya Ranjan