Enter your Email Address to subscribe to our newsletters

पश्चिम बर्दवानम्, 24 अगस्तमासः (हि. स.)।
पश्चिमबङ्गाले विधिव्यवस्थां सुदृढां कर्तुं आगामीनां पर्वणां काले सुरक्षाव्यवस्थां दृढां कर्तुं च केन्द्रसर्वकारेण राज्ये पञ्चाशत् कम्पन्यतिरिक्तकेन्द्रीयार्धसैनिकबलानि प्रेषितानि सन्ति। अनेन सह राज्ये केन्द्रीयबलानां समग्रनियुक्तिः प्रायः शतं कम्पन्यः अभवत्।
प्रशासनिकसूत्राणाम् अनुसारं रविवासरे रात्रौ प्रायः अष्टवादने केन्द्रीयबलस्य षट् कम्पन्यः आसनसोलरेलस्थानकं प्राप्तवन्तः। एतेषां सुरक्षाकर्मिणां राज्यस्य विभिन्नेषु संवेदनशीलेषु क्षेत्रेषु नियुक्तिः करिष्यते।
कथ्यते यत् निर्वाचनस्य अनन्तरं राज्ये विधिव्यवस्थां स्थापयितुं केन्द्रीयबलस्य अनेकाः कम्पन्यः पूर्वमेव नियुक्ताः आसन्। स्थितेः सामान्यतां प्राप्तायां प्रायः शतं कम्पन्यः प्रत्यावर्तिताः आसन्। इदानीं पर्वणां कालं दृष्ट्वा पुनः पञ्चाशत् कम्पन्यतिरिक्तबलानि प्रेषितानि सन्ति।
नूतननियुक्तौ बीएसएफ, सीआरपीएफ, एसएसबी इत्येतासां केन्द्रीयसुरक्षासंस्थानानां सुरक्षाकर्मिणः सम्मिलिताः सन्ति। एतेषां मुख्यं कार्यं संवेदनशीलक्षेत्रेषु गस्तं मार्गसञ्चलनं च कर्तुम्, सन्दिग्धगतिविधीनां निरीक्षणं कर्तुम् तथा स्थानीयपुलिसेन सह समन्वयं कृत्वा कस्यापि प्रकारस्य अशान्तेः निवारणं कर्तुम् भविष्यति।
आगामिनीं दुर्गापूजां दृष्ट्वा सुरक्षाव्यवस्थां विशेषरूपेण सुदृढां क्रियते। पर्वणः काले बहुसंख्यकाः जनाः वीथिषु निर्गमिष्यन्ति इति दृष्ट्वा जनसमूहस्य नियन्त्रणं सामान्यजनानां सुरक्षा च प्रशासनस्य कृते महत्त्वपूर्णा चुनौती भवति।
अतिरिक्तकेन्द्रीयबलानां नियुक्त्या संवेदनशीलक्षेत्रेषु सुरक्षाव्यवस्था सुदृढा भविष्यति, तेन सह सामान्यजनेष्वपि सुरक्षायाः विश्वासः वर्धितुं सम्भावना अस्ति।
प्रशासनस्य कथनमस्ति यत् केन्द्रीयबलानां नियुक्तेः उद्देश्यं विधिव्यवस्थायाः संरक्षणं तथा पर्वणां काले शान्तिपूर्णवातावरणस्य सुनिश्चितीकरणं च अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani