Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य केन्द्रीयकार्यालय-प्रभारिणा तरुणचुगेन पूर्वकेन्द्रीय-वित्तमन्त्रिणे प्रख्याताय अधिवक्त्रे च अरुणजेटलीवर्याय तस्य पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता।
चुगः सोमवासरे सामाजिकसञ्चारमाध्यमे ‘एक्स’ इत्यत्र लिखितवान् यत् देशस्य प्रसिद्धाय राजनीतिज्ञाय, कुशलरण-नीतिज्ञाय, प्रखरवक्त्रे, प्रख्याताय अधिवक्त्रे, पूर्ववित्तमन्त्रिणे च अरुण-जेटलीवर्याय तस्य पुण्यतिथौ कोटिशः नमनम्। राष्ट्रं प्रति जेटलीवर्यस्य प्रतिबद्धता, तस्य आदर्शाः विचाराश्च सदैव प्रेरणां प्रदास्यन्ति तथा तस्य अविस्मरणीयाः स्मृतयः सर्वदा जनैः सह स्थास्यन्ति।
जेटलीवर्यः भारतीयराजनीतिक्षेत्रस्य प्रमुखेषु नेतृषु अन्यतमः आसीत्। सः केन्द्रीयवित्तमन्त्रिपदसहिताः अनेकानि महत्त्वपूर्णानि दायित्वानि निर्वुढवान्। सः प्रभावशाली नेता, विद्वान् तथा विधिक्षेत्रस्य विशिष्टः व्यक्तित्वश्च आसीत्। तस्य निधनं २४ अगस्तमासे २०१९ तमे वर्षे अभवत्।
Hindusthan Samachar / Divya Ranjan