बिहारे ७०० आदर्शविद्यालयेषु ‘बिहारविद्यासाथी’ इत्यस्य शुभारम्भः, विद्यार्थिभ्यः चतुर्विंशतिहोरा एकस्मिन् समये एकस्य शिक्षकेण सह शैक्षणिकसहयोगः प्राप्स्यते
पटना, २४ अगस्तमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी सोमवासरे लोकसेवकावासस्थितात् ‘सङ्कल्प’-सभागारात् दूरदृश्यसम्पर्कमाध्यमेन राज्यस्य ७०० सरस्वतीविद्यानिकेतन-आदर्शविद्यालयेषु चतुर्विंशतिहोरा सप्तसु दिनेषु च एकस्मिन् समये एकेन शिक्षकेण सह संवादात्म
मुख्यमंत्री  सम्राट चौधरी ने आज लोक सेवक आवास स्थित 'संकल्प' सभागार से वीडियो कांफ्रेंसिंग के माध्यम से राज्य के 700 सरस्वती विद्या निकेतन मॉडल विद्यालयों में 24x7, 1:1 इंटरैक्टिव प्लेटफार्म 'बिहार विद्या साथी' का शुभारंभ करते हुए


पटना, २४ अगस्तमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी सोमवासरे लोकसेवकावासस्थितात् ‘सङ्कल्प’-सभागारात् दूरदृश्यसम्पर्कमाध्यमेन राज्यस्य ७०० सरस्वतीविद्यानिकेतन-आदर्शविद्यालयेषु चतुर्विंशतिहोरा सप्तसु दिनेषु च एकस्मिन् समये एकेन शिक्षकेण सह संवादात्मकशैक्षणिकमञ्चस्य ‘बिहार-विद्यासाथी’ इत्यस्य शुभारम्भं कृतवान्। मुख्यमन्त्री अवदत् यत् अनेन अनुप्रयोगेन विद्यार्थिनां अध्ययनं सुकरं भविष्यति तथा तेभ्यः चतुर्विंशतिघण्टं अन्तर्जालाधारित-शिक्षकस्य सुविधा उपलब्धा भविष्यति।

मुख्यमन्त्री अवदत् यत् राज्यस्य सर्वेषु ३८ जनपदेषु स्थितेभ्यः ७०० आदर्श-विद्यालयेभ्यः प्रारब्धस्य अस्य प्रयत्नस्य प्रायः त्रिलक्षं विद्यार्थिन: प्रत्यक्षं लाभं प्राप्स्यन्ति। नवमकक्षातः द्वादश-कक्षापर्यन्तं विद्यार्थिभ्यः चतुर्विंशति-होरा सप्तसु दिनेषु च प्रत्यक्षशिक्षकाः उपलब्धाः भविष्यन्ति। विद्यार्थिन: स्वकीयावश्यकता-नुसारं रुच्यनुसारं च शिक्षकं चयनं कृत्वा तेन सह एकस्मिन् समये एकस्य शिक्षकेण संवादमाध्यमेन अध्ययनं कर्तुं शक्नुवन्ति।

तेन उक्तं यत् प्रायः पञ्चसप्ततिसहस्रं शिक्षकाः विद्यार्थिभ्यः वैयक्तिकं शैक्षणिकसहयोगं प्रदास्यन्ति। नवम-दशमकक्षयोः विद्यार्थिभ्यः सर्वेषु विषयेषु तथा एकादश-द्वादशकक्षयोः विज्ञान-वर्गीयविद्यार्थिभ्यः प्रत्यक्षशिक्षकसहयोगः उपलब्धः भविष्यति। एतदतिरिक्तं बिहारविद्यालयपरीक्षामण्डलस्य, जे.ई.ई.-परीक्षायाः तथा नीट्-परीक्षायाः सज्जतायै अङ्कीयाध्ययनसामग्री अपि उपलब्धा भविष्यति।

मुख्यमन्त्री अवदत् यत् आधुनिकैः कृत्रिमबुद्धिमत्तायाः साधनैः विद्यार्थिनां विषयावबोधनाध्ययनं सुदृढं करिष्यते। विद्यार्थिभ्यः असीमिताध्ययनस्य अभ्या-सस्य च सुविधापि प्राप्स्यते। तेन उक्तं यत् ७०० आदर्शविद्यालयेभ्यः प्रारभ्यमाना एषा व्यवस्था अग्रे राज्यस्य अन्येषु विद्यालयेष्वपि विस्तारितां करिष्यते।

मुख्यमन्त्री विद्यार्थिभ्यः आह्वानं कृतवान् यत् ते अस्याः सुविधायाः पूर्णं लाभं गृह्णन्तु, स्वकीयजिज्ञासानां समाधानं कुर्वन्तु तथा ज्ञानकौशलाभ्यां जीवने नूतनानि शिखराणि प्राप्नुवन्तु। तेन उक्तं यत् सर्वकारस्य प्रयासः अस्ति यत् विद्यार्थी कुत्रापि भवन्तु, यदा कदापि अध्ययनं कुर्वन्तु, तेषां प्रश्नानां समाधानं शिक्षकस्य सहयोगश्च सर्वदा उपलब्धः भवेत्।

कार्यक्रमस्य समये ‘बिहारविद्यासाथी’ अनुप्रयोगमाधारितं लघुचलच्चित्रं प्रदर्शितम्। राजकीयकन्या-उच्च-माध्यमिक-विद्यालयस्य, शास्त्री-नगरस्य छात्राभ्यां जाह्नवी-जिया इत्याभ्यां अनुप्रयोगस्य प्रयोगस्य प्रदर्शनं कृतम्। ताभ्यां अनुप्रयोगेन प्राप्यमाणानां सुविधानां लाभानां च विषये सूचना प्रदत्ता तथा मुख्यमन्त्रिणे कृतज्ञता अपि प्रकटिता।

कार्यक्रमे उपमुख्यमन्त्री विजयकुमार-चौधरी, उपमुख्यमन्त्री बिजेन्द्रप्रसादयादवः, शिक्षामन्त्री मिथिलेशतिवारी, मुख्यमन्त्रिणः प्रधान-सचिवः दीपककुमारः, मुख्यसचिवः प्रत्यय-अमृतः, शिक्षाविभागस्य सचिवः राजीवरौशनः, बिहारविद्यालय-परीक्षा-समित्याः अध्यक्षः डॉ. त्यागराजन् एस.एम. इत्यादयः अन्ये वरिष्ठ-अधिकारिणश्च उपस्थिताः आसन्। दूरदृश्यसम्पर्क-माध्यमेन सर्वेषां जनपदानां जनपदा-धिकारिणः विद्यार्थिनश्च कार्यक्रमे सम्बद्धाः अभवन्।

Hindusthan Samachar / Divya Ranjan