Enter your Email Address to subscribe to our newsletters

हैदराबादम्, 24 अगस्तमासः (हि.स.)। तेलङ्गानाराज्यस्य मुख्यमन्त्री ए. रेवन्तरेड्डी सोमवासरे स्वस्य त्रिदिवसीयां ब्रिटेनयात्रां पूर्णां कृत्वा हैदराबादं प्रत्यागतवान्। यात्राकाले तेन कैम्ब्रिजविश्वविद्यालयस्य, आक्सफोर्डविश्वविद्यालयस्य अन्येषां च प्रतिष्ठितानां शैक्षणिकानां अनुसन्धानसंस्थानां प्रतिनिधिभिः सह उपवेशनं कृत्वा तेलङ्गानाराज्ये शिक्षायाः, अनुसन्धानस्य, नवाचारस्य च क्षेत्रेषु सहयोगस्य सम्भावनानां विषये चर्चा कृता।
मुख्यमन्त्रिणः यात्राकाले कैम्ब्रिजविश्वविद्यालयेन इम्पीरियल् कॉलेज् लण्डन् इत्यनेन सह अनेकैः प्रमुखसंस्थानैः तेलङ्गानाराज्येन सह विभिन्नेषु क्षेत्रेषु सहयोगस्य अवसरान् अन्वेष्टुं रुचिः प्रदर्शिता। एतासु चर्चासु शैक्षणिकविनिमयः, अनुसन्धानम्, नवाचारः तथा राज्यस्य युवभ्यः वैश्विकस्तरीयावसराणां उपलब्धिः इत्यादयः विषयाः विचारिताः।
रेवन्तरेड्डी अगस्तमासस्य विंशतितमे दिनाङ्के ब्रिटेनदेशं प्रति प्रस्थितवान् आसीत्। तस्य यात्रायाः अग्रिमे चरणे अमेरिकादेशं गन्तुमपि योजना आसीत्, किन्तु केन्द्रसर्वकारात् अमेरिकायात्रायै अनुमतिः न प्राप्ता। अतः तेन स्वकीयां विदेशयात्रां मध्ये एव समाप्त्य स्वदेशं प्रत्यागन्तुं निर्णयः कृतः।
मुख्यमन्त्रिणा रविवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशितेन सन्देशेन सङ्केतितं यत् हैदराबादं प्रत्यागत्य सः राज्यसम्बद्धेषु लम्बितेषु विषयेषु प्राथमिकतया ध्यानं दास्यति। अतः तस्य स्वदेशप्रत्यागमनेन सह राज्ये लम्बितानां प्रशासनिकानां राजनैतिकानां च विषयाणां प्रति सर्वकारस्य सक्रियता वर्धितुं सम्भावना वर्तते।--------------
Hindusthan Samachar / Dheeraj Maithani