Enter your Email Address to subscribe to our newsletters

रायपुरम् 24 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः सोमवासरे भारतीयलोकप्रशासनसंस्थानेन देहल्यां प्रकाशितस्य ‘जशपुरम् एकः परिचयः’ इति ग्रन्थस्य विमोचनं कृतवान्। अयं ग्रन्थः जशपुरजनपदस्य इतिहासे, प्रशासनिकविकासे, सुशासनव्यवस्थासु, सामाजिकार्थिकपरिवर्तने, जनजातीयसंस्कृतौ, प्राकृतिकसम्पदायां विकाससम्भावनासु च केन्द्रितः व्यापकाध्ययनग्रन्थः अस्ति। ग्रन्थे स्वातन्त्र्यप्राप्तेः अनन्तरं जशपुरस्य प्रशासनिकव्यवस्थायां समागतानां परिवर्तनानां वर्तमानप्रशासनिकसंस्थानां कार्यप्रणाल्याश्च अध्ययनं कृतम् अस्ति।
अस्मिन् अवसरे भारतीयलोकप्रशासनसंस्थाने छत्तीसगढक्षेत्रीयशाखायाः रायपुरस्य अध्यक्षः भूतपूर्वः मुख्यसचिवः सुयोग्यकुमारमिश्रः, उपाध्यक्षः भूतपूर्वः अपरमुख्यसचिवः डॉ. इन्दिरामिश्रा तथा उपाध्यक्षः भूतपूर्वः मुख्यसचिवः वर्तमानकाले च छत्तीसगढराज्यनिर्वाचनायुक्तः अजयसिंहः उपस्थिताः आसन्।
मुख्यमन्त्री विष्णुदेवसायः अस्य महत्त्वपूर्णस्य प्रकाशनस्य कृते भारतीयलोकप्रशासनसंस्थायाः छत्तीसगढक्षेत्रीयशाखां अभिनन्द्य अवदत् यत् जशपुरं छत्तीसगढस्य तेषु विशिष्टेषु अञ्चलेषु अन्यतमम् अस्ति, यत्र प्रकृतेः संस्कृतेः परम्पराणां च समृद्धा विरासत् सह विकासस्य अपाराः सम्भावनाः विद्यन्ते। जशपुरस्य परिचयः तस्य सुन्दरेभ्यः पर्वतेभ्यः, उपत्यकाभ्यः, नद्यः, जलप्रपातेभ्यः घनेभ्यः वनेभ्यश्च अस्ति एव, अत्रत्या समृद्धा जनजातीयसंस्कृतिः परम्पराश्च अपि अस्य क्षेत्रस्य वैशिष्ट्यं वर्धयन्ति। तेन उक्तं यत् जशपुरस्य एतासां विशेषतानां सह जनपदस्य विकासयात्रायाः प्रशासनिकानुभवानां च एकस्मिन् ग्रन्थे सङ्कलनं प्रशंसनीयं प्रयासः अस्ति।
मुख्यमन्त्री अवदत् यत् कस्यापि क्षेत्रस्य विकासयात्रां ज्ञातुं तत्रत्यस्य इतिहासस्य समाजस्य संस्कृतेः प्राकृतिकसंसाधनानां प्रशासनिकव्यवस्थानां च समग्राध्ययनम् आवश्यकम् अस्ति। ‘जशपुरम् एकः परिचयः’ इति ग्रन्थः एतादृश्या दृष्ट्या महत्त्वपूर्णं दस्तावेजम् अस्ति। अयं ग्रन्थः केवलं जशपुरस्य वर्तमानस्वरूपं न प्रदर्शयति, अपितु कालेन सह जनपदस्य प्रशासनिकसंरचनायां विकासप्रक्रियायां च समागतानां परिवर्तनानां बोधनस्य अवसरमपि प्रददाति।
सायः अवदत् यत् जशपुरस्य सांस्कृतिकं पारिस्थितिकं च स्वरूपं छत्तीसगढस्य मैदानीभ्यः औद्योगिकक्षेत्रेभ्यश्च भिन्नम् अस्ति। छोटानागपुरपठारस्य विस्तीर्णभूभागस्य अंशत्वेन अत्रत्या भौगोलिकसंरचना, जलवायुः, वनसम्पत् आजीविकायाः स्वरूपं च स्वकीयैः विशिष्टताभिः युक्तानि सन्ति। अत्र पीढीभ्यः निवसन्तः जनजातीयसमुदायाः स्वपरम्पराः जीवनपद्धतिं प्रकृत्या सह सहअस्तित्वस्य संस्कृतिं च संरक्षितवन्तः। एषा एव विविधता जशपुरं अध्ययनस्य विकासस्य च उभयोः दृष्ट्योः महत्त्वपूर्णं करोति।
मुख्यमन्त्री सायः अवदत् यत् विगतेषु वर्षेषु जशपुरम् अधोसंरचनायां, ग्रामीणविकासे, शिक्षायां, स्वास्थ्ये, आजीविकासंवर्धने प्रशासनिकसुधारेषु च निरन्तरं प्रगतिम् अकरोत्। विकासस्य अस्यां यात्रायां स्थानीयविशेषतानां आवश्यकतानां च केन्द्रे संस्थाप्य भविष्यस्य योजनाः निर्मातुम् आवश्यकम् अस्ति। एतादृशानि अध्ययनानि प्रशासनाय क्षेत्रस्य वास्तविकपरिस्थितीनां गहनतया अवगमने विकासस्य भाविप्राथमिकतानां निर्धारणे च उपयोगीम् आधारभूमिं प्रददति।
---------------
Hindusthan Samachar / Dheeraj Maithani