Enter your Email Address to subscribe to our newsletters

रायपुर, 24 अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे रायपुरनगरे आयोजिते राज्यस्तरीये सम्मानसमारोहे पञ्जीकृतानां निर्माणश्रमिकाणां द्विशतं मेधाविनां बालकानां सम्मानं करिष्यति। श्रमविभागस्य अन्तर्गतं छत्तीसगढभवनं अन्ये च सन्निर्माणकर्मकारकल्याणमण्डलेन सञ्चाल्यमानायाः ‘अटलउत्कृष्टशिक्षायोजनायाः’ अन्तर्गतं अयं समारोहः मध्याह्ने द्वादशवादने आयोजितः भविष्यति।
कार्यक्रमस्य अध्यक्षतां विधानसभाध्यक्षः डॉ. रमणसिंहः करिष्यति। श्रममन्त्री लखनलालदेवाङ्गनः अतिविशिष्टातिथिरूपेण तथा छत्तीसगढभवनं अन्ये च सन्निर्माणकर्मकारकल्याणमण्डलस्य अध्यक्षः डॉ. रामप्रतापसिंहः विशिष्टातिथिरूपेण उपस्थितौ भविष्यतः। समारोहे जनप्रतिनिधीनां, श्रमिकपरिवाराणां तथा प्रदेशस्य विभिन्नेभ्यः भागेभ्यः आगतानां लाभार्थिनां सहभागिता भविष्यति।
समारोहे वर्षे २०२५-२६ तमे अध्ययनरतान् तान् मेधाविनः विद्यार्थिनः सम्मानिताः भविष्यन्ति, येषां शैक्षणिके क्रीडाक्षेत्रे च उत्कृष्टं प्रदर्शनं भवति। तेन सह वर्षे २०२६-२७ तमे कक्षायाः षष्ठ्यां नवप्रवेशिताः द्विशतं प्रतिभावन्तः विद्यार्थिनः अपि सम्मानिताः भविष्यन्ति। योजनायाः उद्देश्यं पञ्जीकृतनिर्माणश्रमिकाणां बालकेभ्यः गुणवत्तापूर्णशिक्षायाः उपलब्धिः तथा तेषां प्रतिभायाः प्रोत्साहनं च अस्ति।
अस्मिन् अवसरे मुख्यमन्त्री सायः श्रमविभागस्य अष्टादश श्रमिककल्याणकारीयोजनानाम् अन्तर्गतं एकलक्षपञ्चचत्वारिंशत्सहस्राधिकाष्टशतैकचत्वारिंशत् पञ्जीकृतश्रमिकाणां बैंकखातेषु नवत्रिंशत्कोटिरूप्यकाणि सप्तषष्टिलक्षरूप्यकाणि च प्रत्यक्षलाभान्तरणमाध्यमेन सहायताराशिं प्रेषयिष्यति। अनेन श्रमिकपरिवाराणां शिक्षायाः, स्वास्थ्यस्य, सामाजिकसुरक्षायाः अन्यासां च कल्याणकारीयोजनानां प्रत्यक्षलाभः प्राप्स्यते।
राज्यसर्वकारस्य कथनमस्ति यत् श्रमिकानां तेषां परिवाराणां च सामाजिकं आर्थिकं च सशक्तीकरणं तथा तेषां बालकेभ्यः गुणवत्तापूर्णशिक्षायाः उपलब्धिः तस्याः प्राथमिकता अस्ति। एतदेव उद्दिश्य ‘अटलउत्कृष्टशिक्षायोजनायाः’ माध्यमेन मेधाविनां विद्यार्थिनां प्रोत्साहनं क्रियते।
Hindusthan Samachar / Dheeraj Maithani