Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। भारत-सर्वकारेण स्पष्टं कृतं यत् जूनमासे फ्रांसदेशे आयोजितायां जी-७ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतेः डोनाल्डट्रम्पस्य च साक्षात्कारसमये विदेशमन्त्रालयेन माध्यमानां प्रश्नान् न स्वीकरोतु इति यः अनुरोधः कृतः, सः अमेरिकी-राष्ट्रपतेः अप्रत्याशित-व्यवहारस्य कारणेन स्वीकृतः सतर्कतापूर्णः दृष्टिकोणः आसीत्।
अमेरिकी-राजदूतस्य सर्जियो-गोरस्य अस्मिन् विषये सम्प्रति कृतानां टिप्पणीनां सम्बन्धे माध्यमैः पृष्ठेषु प्रश्नेषु सर्वकारस्य उच्चपदस्थैः सूत्रैः उक्तं यत् विदेशमन्त्रालयेन अयं अनुरोधः मानक-प्रक्रियायाः अनुरूपं कृतः आसीत्। सूत्रैः उक्तं यत् कस्यापि अतिविशिष्टव्यक्तेः यात्रायाः पूर्वं नेतॄणां सार्वजनिक-उपस्थितेः व्यवस्थाविषये चर्चाकरणं सामान्य-प्रक्रिया अस्ति। अस्मिन् विषये भारतीयपक्षेण एतादृशेषु समयेषु स्वकीय-मानक-प्रक्रियायाः विषये अवगतं कारितम्। अमेरिकी-राष्ट्रपतेः सह साक्षात्कारसमये प्रतिनिधिमण्डलस्य सदस्याः तस्य अप्रत्याशित-व्यवहारस्य विषये सतर्काः भवन्ति, यथा दक्षिणाफ्रिकादेशस्य यूक्रेनदेशस्य च राष्ट्रपतिभिः सह तस्य वार्तालापात् स्पष्टं भवति। अतः भारतस्य अयं सतर्कतापूर्णः दृष्टिकोणः अस्ति।
उल्लेखनीयं यत् अमेरिकी-राजदूतः सर्जियो-गोरः एकस्मिन् माध्यम-संवाद-कार्यक्रमे कथनं कृतवान् आसीत् यत् १७ जून-दिनाङ्के फ्रांसदेशे आयोजितस्य जी-७ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतेः डोनाल्डट्रम्पस्य च मध्ये अभवत् यत् सभां, तस्यां भारतस्य विदेशमन्त्रालयेन प्रश्नोत्तरं विना पत्रकारैः सह वार्तालापस्य अनुरोधः कृतः आसीत्। तथापि राजदूतस्य अनुसारं ट्रम्पः विदेशमन्त्रालयस्य अनुरोधम् उपेक्ष्य माध्यमानां प्रश्नानाम् उत्तराणि दत्तवान् आसीत्।
Hindusthan Samachar / Divya Ranjan