श्रावणस्य अंतिम सोमवासरे बाबा हरिहरनाथ मंदिरे आपन्नः आस्थायाः जनसंमर्दः
सारणम्, 24 अगस्तमासः (हि.स.)। सोनपुरे श्रावणमासस्य चतुर्थे अन्तिमे च सोमवासरे सोनपुरस्थे प्रसिद्धे बाबा हरिहरनाथमन्दिरे श्रद्धालूनाम् अपारः जनसमूहः समुपस्थितः। प्रातः त्रिवादने ब्रह्ममुहूर्ते मङ्गलाचरणस्य नित्यरुद्राभिषेकस्य च अनन्तरं श्रद्धालूना
श्रावण के अंतिम सोमवार पर बाबा हरिहरनाथ मंदिर में उमड़ा आस्था का जनसैलाब


श्रावण के अंतिम सोमवार पर बाबा हरिहरनाथ मंदिर में उमड़ा आस्था का जनसैलाब


श्रावण के अंतिम सोमवार पर बाबा हरिहरनाथ मंदिर में उमड़ा आस्था का जनसैलाब


सारणम्, 24 अगस्तमासः (हि.स.)।

सोनपुरे श्रावणमासस्य चतुर्थे अन्तिमे च सोमवासरे सोनपुरस्थे प्रसिद्धे बाबा हरिहरनाथमन्दिरे श्रद्धालूनाम् अपारः जनसमूहः समुपस्थितः। प्रातः त्रिवादने ब्रह्ममुहूर्ते मङ्गलाचरणस्य नित्यरुद्राभिषेकस्य च अनन्तरं श्रद्धालूनां सुगमजलार्पणाय अर्घाव्यवस्थां कृत्वा मन्दिरस्य कपाटानि उद्घाटितानि।

कपाटोद्घाटनानन्तरं सम्पूर्णः मन्दिरपरिसरः “हर हर महादेव” “बोल बम” इति जयघोषैः गुंजायमानः अभवत्। सहस्रशः श्रद्धालुभिः बाबास्य दिव्यस्वरूपस्य दर्शनं कृत्वा पवित्रेण गङ्गाजलेन जलाभिषेकः कृतः। विधिव्यवस्थायाः सुरक्षायाश्च संरक्षणाय सारणजिलाप्रशासनं पूर्णतया सतर्कं दृश्यते स्म।

प्रातः चतुर्वादनादेव जिलाधिकारी वैभवश्रीवास्तवः वरिष्ठपुलिसाधीक्षकश्च स्वयमेव मन्दिरपरिसरे शिविरं स्थापयित्वा व्यवस्थायाः निरीक्षणं कुर्वन्तौ दृश्येते स्म। प्रशासनस्य सतर्कतायाः कारणेन श्रद्धालवः पङ्क्तिबद्धाः भूत्वा शान्तिपूर्णरीत्या बाबास्य आशीर्वादं प्राप्तवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani