अंतरिक्ष कार्यक्रमस्य निजीकरणं प्रति वर्धते मोदी सर्वकारः : जयराम रमेशः
नवदिल्ली, 24 अगस्तमासः(हि.स.)।काङ्ग्रेसस्य महासचिवः जयरामरमेशः भारतीयान्तरिक्षानुसन्धानसंस्थायाः (इसरो) भविष्यभूमिकां प्रति केन्द्रसर्वकारस्य आलोचनां कुर्वन् आरोपितवान् यत् सः अन्तरिक्षकार्यक्रमस्य आक्रामकनिजीकरणस्य दिशि अग्रे सरति। तेन उक्तं यत् इ
कांग्रेस महासचिव (संचार) जयराम रमेश (फाइल फोटो)।


नवदिल्ली, 24 अगस्तमासः(हि.स.)।काङ्ग्रेसस्य महासचिवः जयरामरमेशः भारतीयान्तरिक्षानुसन्धानसंस्थायाः (इसरो) भविष्यभूमिकां प्रति केन्द्रसर्वकारस्य आलोचनां कुर्वन् आरोपितवान् यत् सः अन्तरिक्षकार्यक्रमस्य आक्रामकनिजीकरणस्य दिशि अग्रे सरति। तेन उक्तं यत् इसरोसंस्थायाः प्रक्षेपणयानविकासे निर्माणे च भूमिका परिसीमयितुं तथा तस्याः अनेकाः उपग्रहसम्बद्धाः सम्पदः निजीभ्यः कम्पनीभ्यः प्रदातुं सिद्धता क्रियते।

जयरामरमेशः सोमवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तवान् यत् विगतेषु कतिपयेषु दिनेषु देशस्य अन्तरिक्षकार्यक्रमे इसरोसंस्थायाः भविष्यभूमिकां विषयी कृताः वार्ताः गम्भीराः न्याय्याश्च चिन्ताः जनयन्ति। इसरोसंस्थया विगतेषु षट् दशकेषु वैज्ञानिकानां प्रौद्योगिकिविशारदानां च अनवरतप्रयत्नैः स्वक्षमता विशेषज्ञता च विकसिते स्तः।

काङ्ग्रेसस्य महासचिवः उक्तवान् यत् परमाणुशक्तेः क्षेत्र इव नरेन्द्रमोदीसर्वकारः अन्तरिक्षकार्यक्रमस्य क्षेत्रेऽपि आक्रामकनिजीकरणस्य कार्यसूच्याः अनुसरणं करोति। तेन दावीकृतं यत् अस्याः दिशायाः पहलः प्रधानमन्त्रीकार्यालयात् स्वयं प्रधानमन्त्रीणश्च क्रियते।

तेन आरोपितं यत् प्रक्षेपणयानानां विकासे निर्माणे च इसरोसंस्थायाः विद्यमानं योगदानं पर्याप्ततया परिसीम्यते तथा तस्याः अनेकाः उपग्रहसम्बद्धाः सम्पदः निजीभ्यः कम्पनीभ्यः हस्तान्तरीकर्तुं सिद्धता क्रियते। तमिलनाडुराज्ये निर्मीयमाणस्य द्वितीयस्य अन्तरिक्षकेन्द्रस्य उल्लेखं कुर्वन् तेन उक्तं यत् अस्याः परियोजनायाः कृते इसरोसंस्था प्रायः सहस्रकोटिरूप्यकाणि व्ययति, किन्तु इदमपि कस्यचित् निजीसंस्थायै समर्पयितुं विचारः प्रचलति इति वार्ता समुपस्थिता अस्ति।

काङ्ग्रेसस्य महासचिवः उक्तवान् यत् एतेषु परिवर्तनेषु सति आन्ध्रप्रदेशस्य श्रीहरिकोटास्थितस्य ऐतिहासिकस्य अन्तरिक्षकेन्द्रस्य भविष्यं प्रति अपि प्रश्नाः उत्पद्यन्ते।

जयरामरमेशः उक्तवान् यत् इसरोसंस्थया देशः गौरवान्वितः कृतः तथा प्रधानमन्त्री स्वयमपि अनेकवारं तस्याः उपलब्धीनां श्रेयः स्वीकृतवान्। अन्तरिक्षक्षेत्रे कार्यं कुर्वद्भ्यः नवोद्यमेभ्यः प्रोत्साहनं समर्थनं च दातव्यम्, किन्तु दीर्घकालात् निजीक्षेत्रेण सह फलप्रदां सहभागितां कुर्वन्तीं इसरोसंस्थां दुर्बलीकर्तुं आवश्यकता किमर्थमिति प्रश्नः स्वाभाविकतया उदेति।

तेन दावीकृतं यत् विगतेषु कतिपयेषु मासेषु इसरोसंस्थायाः प्रायः शततः एकशतविंशतिपर्यन्ताः महत्त्वपूर्णाः व्यावसायिकाः संस्थां त्यक्तवन्तः। सम्भवतः एतेषां जनानां भाविपरिवर्तनानां पूर्वानुमानं जातमिति तेन उक्तम्।

तेन उक्तं यत् इसरोसंस्थायाः एकः पूर्वाध्यक्षः, यः प्रधानमन्त्रीणा प्रभावितः सन् २०१८ तमस्य वर्षस्य अक्टोबरमासे भाजपादले सदस्यतां स्वीकृतवान् आसीत्, सः अपि इसरोसम्बद्धस्य नूतनस्य निजीकरणाभियानस्य विषये गम्भीराः आशङ्काः प्रकटितवान्। इसरोसंस्थायाः जीवत्सु अन्येषु पञ्चसु प्रतिष्ठितपूर्वाध्यक्षेषु अपि एतस्मिन् महत्त्वपूर्णे विषये किमर्थं कोऽपि स्वमतं न प्रकटयतीति तेन प्रश्नः कृतः।

काङ्ग्रेसस्य महासचिवः जयरामरमेशः स्पष्टं कृतवान् यत् अन्तरिक्षकार्यक्रमे निजीक्षेत्रस्य सहभागितायाः सः विरोधं न करोति, किन्तु इसरोसंस्थायाः संस्थागतक्षमतायाः विशेषज्ञतायाः तथा देशस्य अन्तरिक्षकार्यक्रमे तस्याः केन्द्रीयभूमिकायाः दुर्बलीकरणे सति प्रश्नाः उत्पद्यन्ते इति स्वाभाविकम्।

---------------

Hindusthan Samachar / Dheeraj Maithani