Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। केन्द्रीयमन्त्री जे.पी. नड्डा उक्तवान् यत् रसायन-पेट्रोकेमिकलक्षेत्रं २०४० तमं वर्षं यावत् १ खरब-अमेरिकीय-डॉलर-मूल्यस्य उद्योगरूपेण विकसितं करिष्यते। तदर्थं नवाचारस्य, अनुसन्धानस्य तथा स्वदेशीय-निर्माणस्य प्रोत्साहनस्य आवश्यकता वर्तते। सोमवासरे भारतमण्डपे रसायन-पेट्रोकेमिकलक्षेत्रविषये आयोजितस्य वैश्विक-मुख्यकार्यकारी-अधिकारी-गोलमेज-सम्मेलनस्य अध्यक्षतां कुर्वन् सः उक्तवान् यत् अस्मिन् सम्मेलने भारतस्य विश्वस्य च प्रमुखैः उद्योगपतिभिः सह देशस्य रसायन-पेट्रोकेमिकलक्षेत्रस्य विकासगतिं तीव्रां कर्तुं विषये विस्तरेण चर्चा अभवत्।
सः उक्तवान् यत् सम्मेलने भारतस्य रसायन-पेट्रोकेमिकलक्षेत्रं २०४० तमं वर्षं यावत् १ खर्बुद-अमेरिकीय-डॉलरस्य महत्त्वाकाङ्क्षिणं लक्ष्यं प्राप्तुं रणनीति-विषये विचारविमर्शः कृतः। जे.पी. नड्डा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वकारस्य प्राथमिकताः रेखाङ्कितवान्। निवेशस्य प्रोत्साहनं, स्वदेशीय-निर्माणस्य सुदृढीकरणं, नवाचारस्य अनुसन्धानस्य च विकासस्य प्रोत्साहनं तथा व्यापार-सौकर्यस्य सुधारः इत्येतेषु विषये बलं दत्तम्। तदतिरिक्तं वैश्विकस्तरे प्रतिस्पर्धा-क्षमतां सुदृढां च मूल्य-शृङ्खलां विकसितुं सर्वकारस्य प्रतिबद्धता अपि पुनः प्रतिपादिता। उद्योगजगतः भारतं प्रति निवेशं सहभागितां च वर्धयितुं आह्वानं कुर्वन् उक्तं यत् निजीक्षेत्रं ‘विकसितभारत@२०४७’ इति दृष्टिसङ्कल्पस्य साकाररूपेण सक्रियां भूमिकां निर्वहतु।
रसायन-पेट्रोकेमिकलक्षेत्रस्य प्रमुखैः सह मिलितवान् जे.पी. नड्डा
वैश्विक-मुख्यकार्यकारी-अधिकारी-गोलमेज-सम्मेलनस्य अनन्तरं जे.पी. नड्डा फूजी फिल्म इण्डिया इत्यस्य प्रबन्धनिदेशकेन कोजी वाडा इत्यनेन, ट्रोनोक्स्-संस्थायाः मुख्यकार्यकारी-अधिकारी जॉन डी. रोमानो इत्यनेन तथा बीएएसएफ् इण्डिया लिमिटेड्-संस्थायाः प्रबन्धनिदेशकेन भारतस्थ-बीएएसएफ-समूहस्य संस्थानां प्रमुखेण च अलेक्जाण्डर गर्डिंग इत्यनेन सह मिलितवान्। जे.पी. नड्डा ‘एक्स’ इत्यत्र प्रकाशिते स्वसन्देशे उक्तवान् यत् सम्मेलने भारते स्थितानां एतासां संस्थानां वर्तमानोपस्थितिविषये भविष्यस्य योजनासु च सार्थकः विचारविमर्शः अभवत्। तेन सह भारतदेशे अधिकनिवेशस्य सम्भावनासु, प्रौद्योगिक्याः नवाचारस्य च तथा देशस्य निर्माण-पारिस्थितिकीतन्त्रं अधिकं सुदृढं कर्तुं विद्यमानावसरेषु अपि विचारविमर्शः कृतः।
सम्मेलने सर्वकारस्य पक्षतः उद्योगेभ्यः सुविधाः प्रदातुं तथा भारतदेशे प्रतिस्पर्धाक्षमं, नवाचाराधारितं निवेशा-नुकूलं च व्यावसायिकवातावरणं प्रवर्धयितुं प्रतिबद्धता पुनः प्रतिपादिता। सर्वकारस्य मुख्यं बलं रसायन-पेट्रोकेमिकलक्षेत्रे निवेशम् आकर्षयितुं, अत्याधुनिक-प्रौद्योगिकीं प्रवर्धयितुं तथा भारतं वैश्विक-निर्माणकेन्द्ररूपेण अधिकं सुदृढं कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan