Enter your Email Address to subscribe to our newsletters

रायपुरम् 24 अगस्तमासः (हि.स.)।
छत्तीसगढस्य वित्तमन्त्री ओपी चौधरीः मातृभूमेः वीरसुपुत्राय महान् क्रान्तिकारिणे शिवरामहरिराजगुरवे जयन्त्यवसरे सादरं नमनं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्।
वित्तमन्त्री चौधरी सोमवासरे अवदत् यत् राजगुरुः देशस्य स्वातन्त्र्यार्थं स्वसम्पूर्णं जीवनं समर्पितवान्। तस्य साहसं राष्ट्रभक्तिः अदम्यं बलिदानं च भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे सदैव स्वर्णाक्षरैः अङ्कितं भविष्यति। तेन उक्तं यत् राजगुरुः भगतसिंहेन सुखदेवेन च सदृशैः क्रान्तिकारिभिः सह मिलित्वा आङ्ग्लशासनस्य विरुद्धं संघर्षं कृतवान्। देशस्य स्वातन्त्र्यार्थं तस्य सर्वोच्चं बलिदानं युवकेषु राष्ट्रभक्तेः देशसेवायाश्च भावनां जागरयितुं प्रेरणादायकम् अस्ति।
ओपी चौधरी अवदत् यत् राजगुरोः जीवनं राष्ट्रहितं सर्वोपरि संस्थाप्य साहसेन त्यागेन समर्पणेन च स्वकर्तव्यनिर्वहणस्य प्रेरणां ददाति। स्वातन्त्र्यसेनानां बलिदानस्य कारणादेव अद्य वयं स्वतन्त्रभारते श्वासं स्वीकुर्मः। वित्तमन्त्री महान् क्रान्तिकारिणः शिवरामहरिराजगुरोः जयन्त्यवसरे तं नमनं कुर्वन् अवदत् यत् तस्य त्यागः राष्ट्रप्रेम च आगामिसन्ततीः सदैव प्रेरयिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani