Enter your Email Address to subscribe to our newsletters

नव टिहरी, 24 अगस्तमासः (हि.स.)।
घनसालीखण्डमुख्यालये रक्षाबन्धनोत्सवस्योपलक्ष्ये सामूहिकरक्षासूत्रबन्धनकार्यक्रमस्य आयोजनं कृतम्। मुख्यातिथिः विधायकः शक्तिलालशाहः अवदत् यत् महिलाः परिवारस्य सह समाजस्यापि मेरुदण्डः सन्ति। भाजपासर्वकारेण महिलानां स्वावलम्बनाय लखपतीदीदीयोजना प्रारब्धा अस्ति। द्विलक्षाधिकाः महिलाः लखपतीः कृताः सन्ति। तत्रैव केन्द्रसर्वकारेण नारीशक्तिवन्दनाधिनियमः अपि पारितः, येन लोकसभायां विधानसभासु च महिलाभ्यः त्रिंशत्प्रतिशतं प्रतिनिधित्वं प्रदातुं ऐतिहासिकं कार्यं कृतम् अस्ति। सः रक्षाबन्धनोत्सवे महिलानां प्रोत्साहनाय सर्वसम्भवसहायतां प्रदातुं विश्वासं दत्तवान्।
खण्डप्रमुखः राजीवकण्डारी अवदत् यत् अद्य महिलाः सर्वेषु क्षेत्रेषु प्रगतिं कुर्वन्ति। भाजपासर्वकारः बेटी बचाओ बेटी पढाओ अभियानमधिकृत्य अग्रे वर्धते। महिलामोर्चायाः जिलाध्यक्षा इन्दुडङ्गवालः अवदत् यत् पञ्चायतेभ्यः अतिरिक्तं स्थानीयनिकायेषु, अधुना च लोकसभायां विधानसभासु च महिलानां सहभागिता वर्धिष्यते।
कार्यक्रमे उपस्थिताः शतशः महिलाः विधायकस्य सहितं जनप्रतिनिधीनां हस्तेषु रक्षासूत्राणि अबध्नन् तथा च तेभ्यः मिष्टान्नं भोजितवत्यः। अस्मिन् अवसरे नगरपञ्चायताध्यक्षः घनसाली आनन्दबिष्टः, चमियाला गोविन्दसिंहराणा, सवितासेमवालः, लक्ष्मीबिष्टः, सरोजिन्यन्थवालः, मीनाथपलियालः, अञ्जनाबिष्टः, भागीरथीराणा, रूकमलालराही, राजपालपरमारः, प्रधानसङ्गठनाध्यक्षः यशवन्तगुसाईं, गोविन्दबडोनी, चन्द्रसिंहगुसाईं इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani