भस्मारार्तिक्यां भगवत: महाकालस्य दिव्यं शृङ्गारम्, सायंकाले चतुर्षु स्वरूपेषु भक्तेभ्यः दर्शनं दास्यति
उज्जयिनी, २४ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवत: महाकालेश्वरस्य मन्दिरे श्रावणमासे भक्तानां महान् सम्मर्द: दृश्यते। श्रावणस्य चतुर्थे सोमवासरे प्रातः भस्मारार्तिक्यां बाबा महाकालस्य रजतमुकुटेन, मु
भस्म आरती में बाबा महाकाल का श्रृंगार


उज्जैन में निकली भगवान महाकाल की श्रावण मास की दूसरी सवारी


उज्जयिनी, २४ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवत: महाकालेश्वरस्य मन्दिरे श्रावणमासे भक्तानां महान् सम्मर्द: दृश्यते। श्रावणस्य चतुर्थे सोमवासरे प्रातः भस्मारार्तिक्यां बाबा महाकालस्य रजतमुकुटेन, मुण्डमालया रुद्राक्षमालयया च अलङ्कृत्य राजस्वरूपे दिव्यः शृङ्गारः कृतः। अस्मिन् अवसरे सहस्रशः भक्ताः दिव्यदर्शनस्य लाभं प्राप्तवन्तः।

सायंकाले बाबा महाकालस्य श्रावणमासस्य चतुर्थी सवारी भविष्यति, यस्मिन् अवन्तिकानाथः नगरभ्रमणं कृत्वा स्वस्य प्रजायाः कुशलक्षेमं ज्ञास्यति। सवारीसमये भगवान् चतुर्षु स्वरूपेषु भक्तेभ्यः दर्शनं दास्यति। बाबा महाकालः वृषभयाने नन्दीरथे श्रीउमामहेश्वरस्वरूपे, पालक्यां श्रीचन्द्रमौलेश्वरस्वरूपे, गजराजे श्रीमन्महेशस्वरूपे तथा गरुडरथे श्रीशिवताण्डवस्वरूपे विराजमानः भविष्यति।

अद्य श्रावणमासस्य चतुर्थः अन्तिमश्च सोमवारः अस्ति। अस्मिन् अवसरे देशस्य विभिन्नेभ्यः भागेभ्यः बहुसङ्ख्यकाः श्रद्धालवः उज्जयिनीं प्राप्तवन्तः। भगवत: महाकालेश्वरस्य दर्शनार्थं भक्तानां पङ्क्तयः दृश्यन्ते। भस्मारार्तिक्यै मन्दिरस्य कपाटा: प्रातः द्वादशवादनानन्तरं सार्धद्विवादने उद्घाटिता:। ततः दर्शनस्य क्रमः रात्रौ दशवादने भविष्यमाणायाः शयनारार्तिक्या: पर्यन्तं प्रचलिष्यति।

महाकालेश्वरमन्दिरस्य पूजारी महेशगुरुः अवदत् यत् श्रावणमासस्य द्वितीय-सोमवासरे मन्दिरस्य कपाटा: प्रातः सार्धद्विवादने उद्घाटिता:। परम्परानुसारं सर्वप्रथमं वीरबालभद्रस्य पूजनं कृतम्। ततः भगवत: महाकालस्य, भगवत: गणेशस्य, भगवत: कार्तिकेयस्य नन्दिनश्च विधिविधानपूर्वकम् अभिषेकः पूजनं च सम्पन्नम्। अनन्तरं कर्पूरारार्तिकी कृता। ततः श्रद्धालूनां दर्शनार्थं प्रवेशः प्रदत्तः।

वैदिकमन्त्राणां घोषस्य मध्ये जलेन भगवत: महाकालस्य अभिषेकं कृत्वा दुग्धेन, दध्ना, घृतेन, शर्करया, मधुना फलरसैश्च निर्मितेन पञ्चामृतेन पूजनं कृतम्। रजतचन्द्रेण, त्रिशूलेन, मुकुटेन आभरणैश्च सह भाङ्गेन, चन्दनेन शुष्कफलैश्च शृङ्गारं कृत्वा भस्म अर्पितम्। फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। “जय श्रीमहाकाल” इति जयघोषस्य मध्ये भस्मारार्तिकी सम्पन्ना। ततः भगवान् रजतमुकुटेन, आभरणैः दिव्यवस्त्रैश्च अलङ्कृतः। निराकारात् साकारस्वरूपं प्राप्तः भगवान् महाकालः भक्तेभ्यः दर्शनं दत्तवान्। अस्मिन् समये सहस्रशः श्रद्धालवः चलितभस्मारार्तिक्या: माध्यमेन अपि बाबा महाकालस्य दर्शनं प्राप्तवन्तः।

श्रावणमासस्य अन्तिमसोमवासरे चलितभस्मारत्यामपि बहुसङ्ख्यकाः श्रद्धालवः आगतवन्तः। बाबा महाकालस्य भस्मारत्याः दर्शनार्थं भक्ताः रात्रेः विलम्बितसमयादेव मन्दिरस्य बहिः पङ्क्तौ स्थितवन्तः। घण्टानां प्रतीक्षायाः अनन्तरं यदा ते चलितभस्मारार्तिक्या: माध्यमेन बाबा महाकालस्य दर्शनस्य अवसरं प्राप्तवन्तः, तदा तेषां मुखेषु प्रसन्नता दृश्यते स्म। श्रद्धालवः अवदन् यत् भस्मारार्तिक्यां बाबा महाकालस्य स्वरूपम् अत्यन्तं दिव्यम् अलौकिकं च दृश्यते स्म। बहवः भक्ताः अवदन् यत् ते कदापि न अचिन्तयन् यत् एवं प्रकारेण भस्मारत्याः दर्शनस्य अवसरं प्राप्नुयुः। ते एतत् बाबा महाकालस्य कृपाम् अवदन्।

परम्परानुसारं श्रावण-भाद्रपदमासयोः भगवत: महाकालस्य निर्गच्छन्तीनां सवारीणां क्रमेण अद्य सायं चतुर्वादने श्रावणमासस्य चतुर्थी सवारी निर्गमिष्यति। सवारीनिर्गमनात् पूर्वं मध्याह्ने सार्धत्रिवादने महाकालेश्वरमन्दिर-परिसरस्य सभामण्डपे बाबा महाकालस्य षोडशोपचारपूजनं भविष्यति। ततः भगवान् श्रीचन्द्रमौलेश्वरस्वरूपे पालक्यां विराज-मानः भूत्वा भक्तेभ्यः दर्शनं दातुं नगरभ्रमणाय निर्गमिष्यति।

पालक्यां श्रीचन्द्रमौलेश्वरेण सह गजस्य उपरि श्रीमन्महेशः, गरुडरथे श्रीशिव-ताण्डवः, नन्दीरथे श्रीउमामहेश्वरश्च सवारी इत्यत्र सम्मिलिताः भविष्यन्ति। चतुर्णां स्वरूपाणां दिव्याणि मुखारविन्दानि भक्तान् एकत्र भक्तिरसे निमज्जयिष्यन्ति। ततः सायं चतुर्वादने यदा बाबा महाकालस्य पालकी मन्दिरस्य मुख्यद्वारं प्राप्स्यति, तदा सशस्त्रपुलिसबलस्य सैनिकाः राजा-धिराजाय गार्ड् ऑफ् ऑनर् इति सम्मानं प्रदाय सलामी इति दास्यन्ति। ततः शङ्खनादस्य, ढोल-नगाडानां भजनानां च घोषस्य मध्ये सवारी नगरभ्रमणाय अग्रे गमिष्यति।

राजकीयवैभवेन सह सवारी महाकाल-चतुष्पथं, गुदरीचतुष्पथं, बक्षीबाजारं कहारवाडीं च अतिक्रम्य प्रायः सार्धैककिलोमीटर्-दूरीं गत्वा सायं पञ्चवादने रामघाटं प्राप्स्यति, यत्र शिप्रानद्याः जलेन बाबा महाकालस्य जलाभिषेकः भविष्यति। रामघाटे पूजनस्य आरत्याश्च अनन्तरं बाबा महाकालः मन्दिरं प्रति प्रत्यागमिष्यति। सवारी सायं सप्तवादने मन्दिरं प्राप्स्यति। महाकाल-मन्दिरस्य प्रशासकः प्रथमकौशिकः अवदत् यत् बाबा महाकालस्य सवारी जनजातीय-सांस्कृतिकदलानि सांस्कृतिकप्रस्तुतीः करिष्यन्ति।

Hindusthan Samachar / Divya Ranjan