Enter your Email Address to subscribe to our newsletters

- शौर्य-सन्ध्या, सैन्योपकरणानां प्रदर्शिनी तथा समन्वित-सामरिक-प्रदर्शनं भविष्यन्ति प्रमुखाकर्षणानि
भोपालम्, २४ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे १५ जनवरी २०२७ दिनाङ्के भव्यं ‘सेना-दिवस-सञ्चलनम्–२०२७’ आयोज्यते। अस्मिन् आयोजने शौर्य-सन्ध्या, सैन्योपकरणानां प्रदर्शिनी तथा समन्वित-सामरिक-प्रदर्शनं प्रमुखाकर्षणानि भविष्यन्ति।
इयं सूचना सोमवासरे अस्य प्रतिष्ठितस्य राष्ट्रीय-कार्यक्रमस्य पूर्वसज्जानां विषये आयोजिते विशेष-सम्मेलने प्रदत्ता। जनपदाधिकारिणः प्रियङ्कमिश्रस्य निर्देशनानुसारम् अपर-जनपदाधिकारी महेन्द्र-कवचे तथा भारतीयसेनायाः अधिकारिणः अध्यक्षतायां कलेक्ट्रेट्-सभाकक्षे इदं सम्मेलनम् आयोजितम्। अस्मिन् भारतीयसेनायाः कर्नल-सुब्रत-मिश्रः, कर्नल-सनी-जुनेजा, सम्बद्धाः उपखण्डाधिकारिणः, नगरनिगमस्य अपर-आयुक्तः तथा अन्ये सम्बद्धविभागानाम् अधिकारिणः उपस्थिताः आसन्।
सम्मेलने भारतीयसेनायाः नागरिक-अभियान्त्रिकी-विशेषज्ञः पवनकुमारः परेड-प्राङ्गणं सेनायाः युद्धटङ्कानां भारानुरूपं भारतीय-मार्ग-काङ्ग्रेसस्य मानकानुसारं निर्मातुं लोकनिर्माण-विभागेन, नगरनिगमेन अन्यैः च निर्माण-संस्थाभिः सह तकनीकी-मानकानां विषये विस्तृतां चर्चां कृतवान्।
अस्मिन् अवसरे उक्तं यत् मध्यप्रदेशस्य राजधान्याः भोपालस्य च कृते सेना-दिवस-सञ्चलनस्य आतिथ्यं महद्गौरवस्य अवसरः अस्ति। अयं कार्यक्रमः ‘भवतः सेना भवत्समीपे’ इति संकल्पनां साकारयित्वा सैन्य-नागरिक-तन्त्रयोः मध्ये उत्तमं समन्वयं स्थापयिष्यति। अपर-जनपदाधिकारी महेन्द्र-कवचे अधिकारिभ्यः निर्देशं दत्तवान् यत् आयोजनस्य गरिमाम् अनुरूपाः सर्वाः आवश्यकव्यवस्थाः निर्धारित-दिशा-निर्देशानुसारं निर्धारितसमये पूर्णाः क्रियन्ताम्।
कालीबाडी-मार्गे भविष्यति मुख्यं सञ्चलनम्
कर्नलसुब्रत-मिश्रेण आयोजनस्य विस्तृत-रूपरेखा प्रस्तूय उक्तं यत् मुख्यं ‘सेना-दिवस-सञ्चलनम्’ भेल-स्थिते कालीबाडी-मार्गे आयोजयिष्यते। टी.टी. नगर-क्रीडाङ्गणे देशभक्तिभावनया ओतप्रोतायाः भव्यायाः ‘शौर्य-सन्ध्यायाः’ आयोजनं भविष्यति। जम्बूरी-प्राङ्गणे भारतीयसेनायाः अत्याधुनिक-सैन्योप-करणानां ‘स्थिरं गतिशीलं च प्रदर्शनम्’ प्रदर्शयिष्यते। तत्रैव बडातालाब-स्थिते वी.आई.पी. नौकाविहार-क्लब-क्षेत्रे सेनायाः शौर्यं, सामरिकक्षमता तथा रणनीतिकौशलम् आधारीकृत्य ‘समन्वित-सामरिक-प्रदर्शनम्’ आयोजयिष्यते।
कर्नलमिश्रेण आयोजनस्य सफलतायै मध्यप्रदेश-सर्वकारात् भोपाल-जनपदप्रशासनात् च निरन्तरं सामञ्जस्यं, समन्वयं सहयोगं च अपेक्षितम् इति व्यक्तम्।
/ अंशु गुप्ता