Enter your Email Address to subscribe to our newsletters


- केन्द्रीयमन्त्रिणा चौहानेन रायसेननगरे जनपद-विकास-समन्वय-निरीक्षण-समित्याः सम्मेलने योजनानां समीक्षा कृता
रायसेन, २४ अगस्तमासः (हि.स.)। केन्द्रीयकृषिमन्त्रिणा शिवराजसिंह-चौहानेन अधिकारिभ्यः उक्तं यत् सम्मेलनस्य उद्देश्यं केवलं योजनानां समीक्षां कर्तुम् नास्ति, अपितु योजनानां प्रभावी-क्रियान्वयनेन अधिकतम-नागरिकेभ्यः तेषां लाभं प्रापयितुम् अस्ति। योजनानां विकासकार्याणां च लाभः जनपदस्य प्रत्येकस्मिन् क्षेत्रे प्रत्येकस्मै पात्रपरिवाराय च प्राप्नुयात्।
केन्द्रीयमन्त्री चौहानः सोमवासरे मध्यप्रदेशस्य रायसेननगरे जनपद-विकास-समन्वय-निरीक्षण-समित्याः सम्मेलने केन्द्र-सर्वकारेण राज्य-सर्वकारेण च सञ्चालितानां विविध-जनकल्याणकारी-योजनानां विकास-कार्याणां च विभागवारं समीक्षां कुर्वन् आसीत्। तेन अधिकारिभ्यः परस्परसमन्वयेन कार्यं कर्तुं, योजनानां नियमितं निरीक्षणं कर्तुं तथा लम्बितकार्याणि प्राथमिकतायाः आधारेण पूर्णानि कर्तुं निर्देशाः प्रदत्ताः।
केन्द्रीयकृषिमन्त्रिणा चौहानेन कृषकाणाम् आर्थिकसमृद्ध्यै निर्मितस्य कृषि-मार्गमानचित्रस्य विषये चर्चां कुर्वता उक्तं यत् अधिकाधिकान् कृषकान् उद्यानिकी-नगदीसस्यानां च कृष्यर्थं प्रेरयिष्यते। तेन अधिकारिभ्यः निर्देशः प्रदत्तः यत् कृषिमेलापकानां संगोष्ठीनां च आयोजनं कृत्वा प्रगतिशील-कृषकैः वैज्ञानिकैः च सह कृषकाणां संवादं कारयन्तु तथा उन्नत-कृषितन्त्रज्ञानस्य विषये सूचनां प्रदापयन्तु। अस्य समुचितं प्रचार-प्रसारं च अपि कारयन्तु। जनपदे महिलाः रोजगारेण सह सम्बद्धाः भवेयुः, तासां च आयः वर्धेत, इत्यर्थं विशेषाः प्रयासाः क्रियन्ते।
सम्मेलने आईसीएआर-संस्थायाः राजवीरेण आभासीय-माध्यमेन सूचना प्रदत्ता यत् कृषि-मार्गमानचित्रस्य अन्तर्गतं कृषक-उत्पादक-सङ्घेभ्यः, स्व-सहायता-समूहेभ्यः कृषकेभ्यः च उन्नत-कृषिसम्बद्धं प्रशिक्षणं प्रदास्यते। अस्मिन् फलं, शाकं, दलहनं, तिलहनं, गोधूमं, तण्डुलं च इत्यादीनां उन्नत-कृषिविषयकं ज्ञानं प्रदास्यते तथा उन्नतबीजानि अपि उपलब्धानि करिष्यन्ते।
केन्द्रीयमन्त्रिणा प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं आवास-प्लस २०२४-२५ इत्यस्य समीक्षां कुर्वता उक्तं यत् लाभग्राहिभ्यः आवास-निर्माणाय सिमेण्ट्, सिकता, इष्टिका इत्यादीनां सामग्रीणां एकस्मिन् स्थाने उपलब्धता भवति चेत् लाभग्राहिणां सुविधा भविष्यति। अस्मिन् विषये विचारः करणीयः। तेन सह लाभग्राहीभिः प्राप्तराशेः उपयोगः केवलम् आवास-निर्माणे एव क्रियते इति सुनिश्चित्य निरीक्षणमपि आवश्यकम्। सः उक्तवान् यत् कोऽपि पात्रपरिवारः योजनायाः लाभात् वञ्चितः न भवेत्। यदि पात्रपरिवाराः योजनालाभात् वञ्चिताः सन्ति तर्हि तेषाम् अपि नामानि सूच्यां समावेशनीयानि।
तेन वीबी-जी राम-जी योजनायाः क्रियान्वयनस्य विकासखण्डवारं विवरणमपि प्राप्तम् तथा सर्वेभ्यः पात्रग्रामीणेभ्यः रोजगारं प्रदातुं निर्देशः प्रदत्तः। सम्मेलने सूचना प्रदत्ता यत् सर्वेषु विकासखण्डेषु जनप्रतिनिधीनां उपस्थितौ सरपञ्चैः सह प्रशिक्षणं पूर्णम् अभवत्। तथैव जलागम-क्षेत्रस्य अन्तर्गतं बेतवा-पुनर्जीवनकार्यस्य कृते प्रस्तावः केन्द्रं प्रति प्रेषितः अस्ति।
सम्मेलने केन्द्रीयकृषिमन्त्रिणा दीनदयाल-कौशल-विकास-योजनायाः समीक्षां कुर्वता उक्तं यत् अस्याः योजनायाः उद्देश्यं यूनां कौशलविकासं कृत्वा तान् रोजगारेण सह सम्बद्धान् कर्तुम् अस्ति। प्रशिक्षणं प्राप्तवन्तः प्रशिक्षणार्थिनः अधुना किं कुर्वन्ति, इति सूचना आवश्यकास्ति। योजनायाः अन्तर्गतं स्थानीयस्तरे प्रशिक्षणस्य व्यवस्था करणस्य विषये अपि चर्चा कृता। तथैव ग्रामीण-स्वरोजगार-प्रशिक्षण-योजनायाः अपि समीक्षा कृता। केन्द्रीयमन्त्रिणा चौहानेन मध्यप्रदेशस्य ग्रामीण-विकास-विभागस्य समीक्षां कुर्वता निर्देशः प्रदत्तः यत् ठेकेदाराणां राशि-प्रदानात् पूर्वं कार्यस्य गुणवत्तायाः परीक्षणं करणीयम्।
प्रधानमन्त्री स्वनिधि-योजनायाः समीक्षाकाले सूचितं यत् अस्मिन् वित्तीयवर्षे सप्ततिप्रतिशतं लक्ष्यं प्राप्तुं शक्यते। सम्मेलने जनप्रतिनिधिभिः स्व-स्वक्षेत्रसम्बद्धानि विकासकार्याणि जनसमस्याश्च समितेः समक्षं प्रस्तुतानि। अधिकारिभिः सम्बद्धविषयेषु आवश्यकाः सूचनाः प्रदत्ताः तथा समस्यासु समाधानाय क्रियमाणानां कार्यवाहीणां विषये अवगतं कारितम्। सम्मेलने पंचायत-ग्रामीण-विकास-विभागः, कृषि-विभागः, शिक्षा, स्वास्थ्य, सिंचनं, विद्युत्, सामाजिक-न्यायः इत्यादिभिः विभिन्नविभागैः सम्बद्धानां योजनानां समीक्षा कृता तथा अधिकारिभ्यः दिशा-निर्देशाः प्रदत्ताः।
रायसेनस्य शासकीय-कन्या-महा-विद्यालये सहायता-कक्षस्य शुभारम्भः
केन्द्रीयकृषि-ग्रामीणविकासमन्त्रिणा शिवराजसिंहचौहानेन सोमवासरे रायसेनस्य शासकीय-कन्या-महाविद्यालये अजीम-प्रेमजी-छात्रवृत्ति-योजनायाः अन्तर्गतं छात्राभ्यः आवेदनपत्रं पूरयितुं सुविधायै सहायता-कक्षस्य शुभारम्भः कृतः। अस्मिन् अवसरे तेन स्वयं छात्रया दीक्षया अजीम-प्रेमजी-छात्रवृत्ति-योजनायाः अन्तर्गतं आवेदनस्य प्रक्रिया पूर्णीकृता। तदवसरे तेन महाविद्यालये उपस्थिताभिः छात्राभिः तथा आभासीय-माध्यमेन जनपदस्य सर्वेषां शासकीय-महाविद्यालयानां छात्राभिः सह योजनायाः विषये सूचना कृता तथा पात्रछात्राभ्यः समये आवेदनं कर्तुं प्रेरणा प्रदत्ता।
केन्द्रीयमन्त्रिणा चौहानेन छात्राः सम्बोधयता उक्तं यत् कापि पात्रछात्रा छात्रवृत्ति-योजनायाः आवेदनात् वञ्चिता न भवेत् तथा आवेदनपत्रं पूरयन्ती कापि त्रुटिः न भवेत्। एतदर्थं महाविद्यालये छात्राणां सुविधां दृष्ट्वा विशेषः सहायता-कक्षः स्थापितः अस्ति। सहायता-कक्षस्य माध्यमेन छात्राभ्यः छात्रवृत्ति-योजनासम्बद्ध-पात्रता, आवेदनप्रक्रिया, आवश्यकतथ्यानि, आवेदनपत्र-पूर्तिः तथा आवेदनपत्रस्य समर्पणप्रक्रिया इत्यादीनां विषये सूचना प्रदास्यते तथा आवेदनपत्राणि अपि पूरयिष्यन्ते।
सः उक्तवान् यत् आर्थिककारणैः कस्याश्चित् छात्रायाः अध्ययनं प्रभावितं न भवेत्। सर्वकारेण सञ्चालितानां छात्रवृत्ति-योजनानां तथा विभिन्न-सङ्गठनैः सञ्चालितानां छात्रवृत्ति-योजनानां लाभः सर्वेभ्यः पात्रविद्यार्थिभ्यः प्राप्नुयात्, इति आवश्यकम्। तेन प्राचार्याय अन्येभ्यः अधिकारिभ्यश्च निर्देशः प्रदत्तः यत् कापि पात्रछात्रा आवेदनपत्र-पूर्तेः अवसरात् वञ्चिता न भवेत्। केन्द्रीयमन्त्रिणा सह संवादकाले छात्राभिः उक्तं यत् महाविद्यालये एव मार्गदर्शनम् आवेदनसम्बन्धी सहायता च प्राप्तेः कारणेन तासां कृते महती सुविधा भविष्यति। अस्मिन् अवसरे जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
शासकीय-कन्या-महाविद्यालये सङ्गणक-प्रयोगशालायाः लोकार्पणम्
केन्द्रीयकृषिमन्त्रिणा चौहानेन शासकीय-कन्या-महाविद्यालये सङ्गणक-प्रयोगशालायाः अपि लोकार्पणं कृतम्। अस्मिन् अवसरे तेन प्रयोगशालायाः निरीक्षणं कृतं तथा छात्राभिः सह आत्मीयसंवादं कृत्वा ताः पूर्णलग्नतया परिश्रमेण च अध्ययनं कर्तुं प्रेरिताः।
Hindusthan Samachar / Divya Ranjan