देशस्य केन्द्रबिन्दौ स्थितं मध्यप्रदेशस्य बैतूलजनपदस्य बरसालीग्रामं पर्यटनमानचित्रे प्राप्स्यति विशिष्टं परिचय:
— अक्षांशगणनया सिद्धं यत् बरसाली-ग्रामं भारतस्य अक्षांशीय-मध्यबिन्दुरस्ति भोपालम्, २४ अगस्तमासः (हि.स.)। देशस्य मध्यबिन्दौ स्थितं मध्यप्रदेशस्य बैतूल-जनपदस्य लघुग्रामं बरसाली अधुना देशस्य पर्यटनस्य विज्ञानस्य च मानचित्रे विशिष्टं परिचयं प्राप्तुं
देश के मध्य बिन्दु बरसाली गांव पर सारिका द्वारा बनाए गए वीडियो से ली गई तस्वीर


देश के मध्य बिन्दु बरसाली गांव पर सारिका द्वारा बनाए गए वीडियो से ली गई तस्वीर


— अक्षांशगणनया सिद्धं यत् बरसाली-ग्रामं भारतस्य अक्षांशीय-मध्यबिन्दुरस्ति

भोपालम्, २४ अगस्तमासः (हि.स.)। देशस्य मध्यबिन्दौ स्थितं मध्यप्रदेशस्य बैतूल-जनपदस्य लघुग्रामं बरसाली अधुना देशस्य पर्यटनस्य विज्ञानस्य च मानचित्रे विशिष्टं परिचयं प्राप्तुं गच्छति। सतपुडायाः रमणीयासु उपत्यकासु बैतूल-अमलामार्गे प्रायः षोडशकिलोमीटरमिते दूरे स्थितस्य बरसालीग्रामस्य भारतस्य सटीकः अक्षांशीयः मध्यबिन्दुः अर्थात् ‘लैटीट्यूडनल हाफवे’ इति रूपेण परिचयः निर्धारितः अस्ति।

मध्यप्रदेशस्य राष्ट्रीयम् पुरस्कारं प्राप्तवती खगोलविज्ञानप्रचारिका सारिका घारू सोमवासरे अवदत् यत् भारतस्य सुदूरोत्तरबिन्दोः लद्दाखस्य इन्दिराकोलस्य सुदूरदक्षिणबिन्दोः ग्रेट् निकोबारस्य इन्दिरापॉइण्ट् इत्यस्य च अक्षांशयोः सम्यक् मध्यं कृत्वा यः गणितीयमध्यबिन्दुः प्राप्यते, सः २१ अंशाः ५५ निमेषाः ०५ पलानि उत्तराक्षांशः अस्ति। बरसालीग्रामं सम्यगेव अस्याः अक्षांशरेखायाः उपरि स्थितम् अस्ति।

सा अवदत् यत् एषा वैज्ञानिकगणना प्रमाणयति यत् बरसाली भारतस्य अक्षांशीयमध्यबिन्दुः अस्ति। एतदतिरिक्तं पारम्परिकरूपेणापि अयं प्रदेशः अखण्डभारतस्य केन्द्ररूपेण मन्यते स्म। सारिकया अस्य खगोलीयघटनायाः द्वे विशेषे चलच्चित्रे निर्मिते स्तः। तयोः बरसालीग्रामस्य खगोलीयमहत्त्वं रेखाङ्कितं कृत्वा देशविदेशेभ्यः पर्यट-केभ्यः अत्र आगमनस्य आह्वानं कृतम् अस्ति।

बैतूलस्य जनपदाधिकारिणः डॉ. सौरभ-सञ्जयसोनवणे इत्यस्य मार्गदर्शने सारिकया घारू इत्यनया निर्मितयोः अनयोः चलच्चित्रयोः बरसालीग्रामस्य सह बैतूलजनपदस्य सम्पूर्णा पर्यटनक्षमतापि समावेशिता अस्ति। सा अवदत् यत् अस्याः पहलस्य उद्देश्यं केवलं बरसालीग्रामस्य प्रचारः न, अपि तु नर्मदापुरमसम्भागस्य बैतूलजनपदस्य अन्येषां प्रमुखाणां पर्यटनस्थलानामपि एकसूत्रे संयोजनम् अस्ति।

Hindusthan Samachar / Divya Ranjan