Enter your Email Address to subscribe to our newsletters

रायसेनम्, २४ अगस्तमासः (हि.स.)। केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः तथा केन्द्रीयसञ्चार-पूर्वोत्तरक्षेत्र-विकास-मन्त्री ज्योतिरादित्यसिन्धिया सोमवासरे मध्यप्रदेशस्य साञ्च्यां आधुनिक-सुविधाभिः सुसज्जितस्य उपडाकगृहस्य आभासीय-माध्यमेन उद्घाटनं करिष्यतः।
जनसम्पर्काधिकारिणी अनुभासिंहः अवदत् यत् भारतसर्वकारस्य डाकगृहाणाम् आधुनिकीकरणस्य महत्त्वाकाङ्क्षिण्याः योजनायाः अन्तर्गतं नवदिल्ली इत्यत्र स्थितस्य स्कूल् ऑफ् प्लानिङ्ग् एण्ड् आर्किटेक्चर इत्यस्य वास्तुविन्यास-सम्बद्धानां मार्गदर्शनिर्देशानाम् अनुरूपं साञ्ची-उपडाकगृहस्य कायाकल्पस्य बाह्याभ्यन्तरस्वरूपयोः च सुधारस्य कार्यं कृतम् अस्ति। साञ्च्याः ऐतिहासिकं सांस्कृतिकं च परिचयं ध्याने निधाय डाकगृहभवनाय आधुनिकं, आकर्षकं नागरिककेन्द्रितं च स्वरूपं प्रदत्तम् अस्ति।
सा अवदत् यत् अस्य आधुनिकस्य उपडाकगृहस्य अद्य सायं पञ्चवादने आभासीयमाध्यमेन उद्घाटनं भविष्यति। कार्यक्रमे केन्द्रीयसञ्चारराज्यमन्त्री चन्द्र-शेखरः तथा डाकविभागस्य सचिवः सुब्रतः अपि आभासीयमाध्यमेन सम्मिलिष्यतः। अस्मिन् अवसरे साञ्च्यां आयोजिते कार्यक्रमे स्थानीयविधायकः डॉ. प्रभुरामचौधरी, नगरपरिषदः अध्यक्षः पप्पू रेवाराम अहिरवारः, डाकविभागस्य वरिष्ठाधिकारी आर.एस. रघुवंशी, भोपालस्य डाकनिदेशकः इत्यादयः डाकविभागस्य वरिष्ठाधिकारिणः, जन-प्रतिनिधयः नागरिकाश्च सम्मिलिष्यन्ति।
डाकगृहभवनस्य बाह्याभ्यन्तरस्वरूपं आधुनिकम् आकर्षकं च कृतम् अस्ति। तत्र नागरिकाणां सुविधा, सुगमः आवागमन-मार्गः, उत्तमः कार्यप्रवाहः तथा आधुनिकसेवानुभवः विशेषतया प्राथमिक-तया स्वीकृताः सन्ति। साञ्ची-उपडाकगृहस्य आधुनिकीकरणं केवलं भवनस्य सौन्दर्यीकरणपर्यन्तं सीमितं नास्ति, अपि तु डाकगृहाणि आधुनिकानि नागरिककेन्द्रितानि जनसेवाकेन्द्राणि रूपेण विकसितानि सन्ति।
Hindusthan Samachar / Divya Ranjan