Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री भाजपायाः वरिष्ठनेता च अरुणजेटली इत्यस्य पुण्यतिथौ सोमवासरे लोकसभाध्यक्षः ओमबिरला, केन्द्रीय-गृहमन्त्री सहकारितामन्त्री च अमितशाहः इत्यादयः बहवः नेतारः तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवन्तः। अस्मिन्नेव अवसरे क्रान्तिकारी-बलिदानिन: शिवरामहरिराजगुरोः जयन्त्यां नेतारः तस्मै अपि नमनं कृत्वा देशस्य स्वातन्त्र्यप्राप्तौ तस्य योगदानं स्मृतवन्तः।
लोकसभाध्यक्षः ओमबिरला अरुणजेट्लीं स्मरन् अवदत् यत् तस्य व्यक्तित्वम् असाधारणप्रतिभायाः, दूरदर्शितायाः लोकतान्त्रिकमूल्येषु च अटूट-प्रतिबद्धतायाः प्रतीकम् आसीत्। सः अवदत् यत् जेट्ली स्वस्य प्रभावशालिवक्तृत्वेन, गहनविद्वत्तया प्रशासनिकदक्षतया च सार्वजनिकजीवने देशस्य सेवां कृतवान्।
केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् अरुणजेटली उत्कृष्टः विधिविशेषज्ञः, प्रभावशाली वक्ता कुशलप्रशासकश्च आसीत्। प्रभावीसंवादस्य माध्यमेन सर्वकारस्य नीतयः सामान्यजनान् प्रति प्रापयितुं तेन महत्त्वपूर्णा भूमिका निर्व्यूढा। सः अवदत् यत् जेट्लिना सर्वकारस्य अनेकासां महत्त्वपूर्णनीतीनां कार्यान्वयने महत्त्वपूर्णं योगदानं प्रदत्तम् तथा तस्य अमिटं योगदानम् अग्रिमवंशानां नेतॄन् निरन्तरं प्रेरयिष्यति।
विदेशमन्त्री एस. जयशङ्करः अवदत् यत् अरुणजेटली बहूनां जनानां मित्रं मार्गदर्शकश्च आसीत्। सः अवदत् यत् जेट्लिनः प्रज्ञा, स्नेहः जनसेवायां समर्पणं च अद्यापि जनान् प्रेरयति।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् संविधानस्य विधानस्य च विषयेषु विशेषज्ञः अरुणः कुशलप्रशासकः उत्कृष्टः सांसदश्च आसीत्। राजनीतिविषयेषु नीतिगतविषयेषु च तस्य गहनावबोधः, दूरदर्शिता तार्किकदृष्टिकोणश्च सदैव प्रेरणादायकाः भविष्यन्ति। राष्ट्रहिते तस्य समर्पणं सार्वजनिकजीवने तस्य अमूल्यं योगदानं च सदैव स्मरिष्यते।
केन्द्रीयसडकपरिवहन-राजमार्गमन्त्री नितिनगडकरी अवदत् यत् भाजपानेतारं पूर्वकेन्द्रीयमन्त्रिणं पद्मविभूषणेन सम्मानितं अरुणजेट्लीं तस्य पुण्यतिथौ सादरं नमनम्।
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः अवदत् यत् देशस्य आर्थिकसंरचनां सुदृढीकर्तुं, जी.एस्.टी. इत्यादीनां ऐतिहासिकसुधाराणां कार्यान्वयनाय तथा सङ्गठनस्य सशक्तीकरणाय अरुणजेट्लिनः अद्वितीयं योगदानं सदैव अविस्मरणीयं भविष्यति।
Hindusthan Samachar / Divya Ranjan