Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। देहलीमुख्यमन्त्री रेखागुप्ता सोमवासरे पूर्वकेन्द्रीयमन्त्रिणः अरुणजेटली इत्यस्य सप्तमपुण्यतिथेः अवसरे अरुणजेटली-उद्याने तस्य प्रतिमायै श्रद्धासुमनानि समर्प्य नमनं कृतवती। एतस्याः विषये मुख्यमन्त्रिणा स्वकीयसामाजिकमाध्यम-सन्देशे सूचना प्रदत्ता।
मुख्यमन्त्री अवदत् यत् राष्ट्रवादी-चिन्तकरूपेण, प्रख्यातविधिवेत्तृरूपेण, ओजस्विवक्तृरूपेण कुशलसङ्गठन-कर्तृरूपेण च अरुणजेटली इत्यस्य सार्वजनिकजीवनं राष्ट्रसेवायै सुशासनाय च समर्पितम् आसीत्। वित्तमन्त्रीरूपेण तेन अनेकेषां महत्त्वपूर्णानाम् आर्थिकसुधाराणां माध्य-मेन भारतस्य अर्थव्यवस्थायै नवीनं सामर्थ्यं दिशां च प्रदातुं महत्त्वपूर्णा भूमिका निर्वुढा। राष्ट्रं सङ्गठनं च प्रति तस्य निष्ठा तथा राष्ट्रनिर्माणे तस्य योगदानं सदैव प्रेरणां प्रदास्यति।
मुख्यमन्त्री अवदत् यत् जेटलीमहोदयस्य विद्यार्थीपरिषदः माध्यमेन सार्वजनिक-जीवनस्य प्रारम्भः, आपात्कालस्य विरुद्धं संघर्षः, सङ्गठने दीर्घकालीनं साधनं संसदि च प्रभावी भूमिका च तस्य जीवनस्य राष्ट्रनिष्ठराजनीतेः प्रेरणादायिनी यात्रा आसीत्। तेन उक्तं यत् वित्तमन्त्रीरूपेण देशस्य अर्थव्यवस्थायै नवीनां दिशां प्रदातुं कृतानां अनेकेषां महत्त्वपूर्णानाम् आर्थिकसुधाराणां निर्णायकं योगदानं सदैव स्मरणीयं भविष्यति। देहली तस्य कर्मभूमिः आसीत्। अत्रत्यैः कार्यकर्तृभिः जनैश्च सह तस्य आत्मीयसम्बन्धः अद्यापि अनेकासु स्मृतिषु जीवन्तः अस्ति।
Hindusthan Samachar / Divya Ranjan