Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 24 अगस्तमासः (हि.स.)।
अन्ताराष्ट्रियसमरसतामञ्चस्य नवदेहलीतः आयोजिते पूर्वप्रधानमन्त्रिणः स्वर्गीयस्य राजीवगान्धिनः जन्मजयन्त्याः उपलक्ष्ये सद्भावनामहोत्सवे पौडीमुख्यालयनिवासी श्रीकान्तः राजीवगान्धिगौरवपुरस्कारेण सम्मानितः। सामाजिकक्षेत्रे तेन क्रियमाणानां उल्लेखनीयकार्याणां कृते अयं सम्मानः तस्मै प्रदत्तः।
पुरस्कारसमारोहे रोमा अन्तर्राष्ट्रियसंस्कृतिविश्वविद्यालयस्य नवदेहलीस्थस्य कुलाधिपतिः समारोहाध्यक्षश्च डॉ. एच.सी. गणेशिया, राजस्थानस्य पूर्वः मन्त्रिमण्डलमन्त्री डॉ. जितेन्द्रसिंहः, सर्वोच्चन्यायालयस्य वरिष्ठः अधिवक्ता डॉ. ए.पी. सिंहः इत्यादयः अनेकाः गणमान्यजनाः श्रीकान्तं सम्मानितवन्तः।
महोत्सवस्यावसरे स्वविचारान् प्रस्तुतयन् श्रीकान्तः अन्तर्राष्ट्रीयसमरसतामञ्चस्य कार्ययोजनाभिः सह वैश्विकशान्तेः, सामाजिकसमरसतायाः, भारतनेपालमैत्र्याश्च सन्देशं अन्तर्राष्ट्रीये स्तरे अधिकाधिकं प्रभावशालिनं कर्तुं बलं दत्तवान्। सः अवदत् यत् सामाजिकसमरसतायाः परस्परभ्रातृत्वस्य च सुदृढीकरणाय निरन्तरप्रयत्नाः आवश्यकाः सन्ति।
श्रीकान्तः अवदत् यत् आगामिनि दिसम्बरमासे काठमाण्डूनगरे प्रस्ताविते सार्कसम्मेलने सांस्कृतिकसमन्वयसम्मेलनाय अपि तस्मै आमन्त्रणं प्राप्तम् अस्ति। अस्य सम्मेलनस्य माध्यमेन भारतनेपालयोः सहितं विभिन्नदेशानां मध्ये सांस्कृतिकसामाजिकसम्बन्धानां सुदृढीकरणविषये चर्चा भविष्यति।
सद्भावनामहोत्सवे पञ्चविंशतिदेशानां पञ्चाशीतिः विशिष्टप्रतिभाः अपि सम्मानिताः। तेषु सामाजिककार्यकर्तारः, शिक्षाविदः, अधिवक्तारः, चिकित्सकाः, विभिन्नक्षेत्रसम्बद्धाः सांस्कृतिकप्रतिनिधयश्च सम्मिलिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani