तमिलनाडुराज्ये २०२७ तमे पुङ्गलपर्वणः आरभ्य प्रतिवर्षं त्रयः निःशुल्काः पाकशालागैस-पात्राः, १.३८ कोटिपरिवाराः लाभान्विताः भविष्यन्ति
चेन्नई, २४ अगस्तमासः (हि.स.)। तमिलनाडुराज्ये पात्रेभ्यः परिवारेभ्यः प्रतिवर्षं त्रयः निःशुल्काः पाकशालावाति-पात्राणि प्रदातुं योजना अग्रिमे २०२७ तमे वर्षे पुङ्गलपर्वणः आरभ्य कार्यान्विता भविष्यति। मुख्यमन्त्री विजयः सोमवासरे विधानसभायां तस्याः घोषण
तमिलनाडु के मुख्यमंत्री विजय


चेन्नई, २४ अगस्तमासः (हि.स.)। तमिलनाडुराज्ये पात्रेभ्यः परिवारेभ्यः प्रतिवर्षं त्रयः निःशुल्काः पाकशालावाति-पात्राणि प्रदातुं योजना अग्रिमे २०२७ तमे वर्षे पुङ्गलपर्वणः आरभ्य कार्यान्विता भविष्यति। मुख्यमन्त्री विजयः सोमवासरे विधानसभायां तस्याः घोषणां कृतवान्। योजनायाः अन्तर्गते पात्राभ्यः गृहिणीभ्यः प्रतिवर्षं त्रयः एल.पी.जी.-गैस-पात्राणां लाभः प्रदास्यते।

तमिलनाडुविधानसभायां अनुदान-याचनानां विषये चर्चा अगस्तमासस्य १७ दिनाङ्कात् प्रचलति। द्विदिनस्य अवकाशस्य अनन्तरं सोमवासरे प्रातः सार्धनववादने सदनस्य कार्यवाही पुनः प्रारब्धा। अस्मिन्नेव क्रमे मुख्यमन्त्री विजयः विधानसभायाः ११०तमस्य नियमान्तर्गते निःशुल्कपाकशालागैस-पात्रयोजनायाः घोषणां कृतवान्।

सर्वकारेण एषा योजना ‘अन्नपूर्णी सुपर ६’ इत्यस्य अन्तर्गते कार्यान्वयितुं निर्णयः कृतः अस्ति। अस्यै योजनायै प्रतिवर्षं प्रायः ४,००० कोटिरूप्यकाणां प्रावधानं करिष्यते। सर्वकारस्य अनुसारं योजनया राज्यस्य १ कोटि ३८ लक्ष १६ सहस्र १०४ परिवाराः लाभान्विताः भविष्यन्ति।

योजनायाः परिधौ वार्षिकद्विलक्ष-पञ्चाशत्सहस्ररूप्यकपर्यन्तम् आयं प्राप्नुवतां आर्थिकरूपेण दुर्बलानां परिवाराणाम् अतिरिक्तं लघुसीमान्त-कृषकपरिवाराः तथा दिव्याङ्गव्यक्तीनां परिवाराः अपि समावेश्यन्ते।

मुख्यमन्त्री विजयः अवदत् यत् लाभार्थिभिः प्रथमं निर्धारितप्रक्रियानुसारं वातिपात्रं आरक्षितं कृत्वा तत् प्राप्तव्यं भविष्यति। ततः तेलनिर्माणीभ्यः लाभार्थिनां सूची प्राप्ता भविष्यति तथा सम्बन्धितस्य गैसपात्रस्य मूल्यं साक्षात् लाभार्थिनां धनागारेषु प्रिषयिष्यते।

मुख्यमन्त्री अवदत् यत् योजनायाः कार्यान्वयनाय आवश्यकाः सज्जताः क्रियन्ते। सर्वकारस्य अनुसारम् अनेन उपक्रमेण आर्थिकरूपेण दुर्बलानां परिवाराणां कृते वर्धमानस्य पाकशाला-वातिव्ययस्य भारं न्यूनीकर्तुं सहायता भविष्यति।

उल्लेखनीयं यत् निःशुल्कपाकशाला-वाति-पात्राणां प्रदानं तमिलगा वेत्रि कड़गम इत्यस्य प्रमुखेषु निर्वाचनप्रतिज्ञासु अन्यतमम् आसीत्। विधानसभायां मुख्यमन्त्रिणः घोषणायाः अनन्तरं दलसमर्थकेषु सम्भावितलाभार्थिपरिवारेषु च उत्साहः दृश्यते स्म।

Hindusthan Samachar / Divya Ranjan