Enter your Email Address to subscribe to our newsletters


मुख्यमन्त्रिणा योगिना अवधस्य नायकेभ्यः श्रद्धाञ्जलिः समर्पिता, रानाबेनीमाधव-बख्शसिंहसभागारस्य लोकार्पणं कृतम्, डाक-चिटिकां च विमोचितम्
रायबरेली, २४ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः राय-बरेलीनगरे राहुलगान्धिनं प्रति तीव्रं प्रहारं कृतवान्। तेन उक्तं यत् राहुलगान्धी अस्माकं धरोहरस्य अपमानं कुर्वन् अस्ति तथा च युवानः विपरीतदिशां प्रति नयति। मुख्यमन्त्री सोमवासरे रायबरेलीनगरे रानाबेनीमाधवबख्शसिंहस्य द्विशत-द्वाविंशतितम्याः जयन्त्याः अवसरे आयोजिते भावसमर्पणसमारोहे सम्बोधनं कुर्वन् आसीत्।
मुख्यमन्त्री योगी अवदत् यत् राहुलगान्धिनः देशः अधुना किमपि अपेक्षां न करोति, किन्तु प्रतिपक्षनेतृत्वात् तस्य काचित् उत्तरदायिता अस्ति। तथापि सः उत्तरप्रदेशस्य बहिः प्रदेशस्य अपमानं करोति। देशस्य बहिः देशस्यापि अपमानं करोति। स्वकीयधरोहरस्य अपमानं कर्तुं तस्य कोऽपि अधिकारः नास्ति। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् राहुलगान्धिना शतपथब्राह्मणं मत्स्यपुराणं च पठितव्यम्। येन सः अवगन्तुं शक्नुयात् यत् अस्माकं ग्रन्थेषु धरोहरे च किम् अस्ति।
मुख्यमन्त्री अवदत् यत् रायबरेलीनगरे केवलम् एकस्य परिवारस्य नाम्ना संस्थानां नामकरणं कृतम्। बलिदानिनां विस्मरणं कृतम्। अधुना प्रदेशसर्वकारः स्वकीयान् बलिदानिन: नायकांश्च स्मरन् अस्ति। तेन अयोध्यायां काङ्ग्रेसस्य प्रदेशाध्यक्षस्य भोजने कटाक्षं कुर्वता उक्तं यत् एतत् सनातनस्य अपमानम् अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अस्माभिः स्वकीयं धरोहरं ज्ञातव्यम्। तस्य विषये गौरवं कर्तुं आवश्यकता अस्ति। येन वयं समृद्धां परम्परां इतिहासं च ज्ञातुं शक्नुमः।
योगी आदित्यनाथः ततः पूर्वं पञ्चविंशतिकोटिरुप्यकाणां व्ययेन निर्मितस्य सभागारस्य लोकार्पणं कृतवान् तथा च बलिदानिनां परिजनान् सम्मानितवान्। मुख्यमन्त्रिणा डाक-विभागेन राना बेनी माधवसिंहस्य नाम्ना विमोचितं विशेषावरणं विमोचितम्। राना बेनी माधवसिंहस्मारकसमित्या प्रकाशित-स्य ‘अवधकेसरी’ इति ग्रन्थस्य विमोचनमपि मुख्यमन्त्रिणा कृतम्। अस्मिन्नवसरे उत्तरप्रदेशस्य पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः, मन्त्री राकेशसचानः, मन्त्री मनोजपाण्डेः, राज्यमन्त्री स्वतन्त्रप्रभारः दिनेशप्रताप-सिंहः, विधायकः अदितिसिंहः, अशोककोरी, विधानपरिषदः सदस्यः उमेशद्विवेदी, अवनीशसिंहः इत्यादयः भाजपा-पदाधिकारिणः नेतारश्च उपस्थिताः आसन्।
तदनन्तरं रायबरेलीनगरस्य फिरोज-गान्धीडिग्रीमहाविद्यालयस्य क्रीडाङ्गणे आयोजितायां जनसभायां मुख्यमन्त्री योगी आदित्यनाथः रायबरेली इत्यस्य विकासाय ८७९ कोटिरूप्यकाणाम् अधिकमूल्यानां ३४६ विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। अस्मिन् सः ६२४ कोटि-रूप्यकाणां १८५ परियोजनानां लोकार्पणं करिष्यति, यदा तु २७७ कोटिरूप्यकाणां १६२ नूतनपरियोजनानां शिलान्यासमपि करिष्यति।
मुख्यमन्त्री रायबरेलीनगरे सपेरा-समुदायस्य अन्येषां च आवासविहीनानां ६० तः अधिकानां परिवाराणां कृते आवासीयपट्टावितरणस्य पत्राणि लाभार्थिभ्यः प्रदास्यति। तेन सह अन्यासां योजनानां लाभार्थिनां धनागारेषु १९ कोटिरूप्यकाणाम् अधिका राशिः अपि अन्तरिता करिष्यते। मुख्यमन्त्री विभिन्न-योजनानां लाभार्थिभ्यः आयुष्मान्-कार्ड, अङ्कीयसङ्गणक-यन्त्राणि, स्वीकृतिपत्राणि, गृहकुंचिकाः इत्यादीनि अपि प्रदास्यति।
Hindusthan Samachar / Divya Ranjan