प्रथमस्य सैफई सिंडिकेटदलस्यासीत् प्रभावः, अधुना सर्वासां योजनानां लब्धो लाभः : मुख्यमंत्री याेगी
रायबरेली, 24 अगस्तमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे रायबरेलीनगरे अवदत् यत् पूर्वं विद्युत्प्रदाने, राशनवितरणे, रोजगारप्रदाने च सैफईसमूहस्य प्रभुत्वम् आसीत्। अधुना सर्वेभ्यः योजनानां लाभः प्राप्यते। पूर्वं उत्तरप्रदेशः कर्फ्युप्रद
जनसभा को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


रायबरेली, 24 अगस्तमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे रायबरेलीनगरे अवदत् यत् पूर्वं विद्युत्प्रदाने, राशनवितरणे, रोजगारप्रदाने च सैफईसमूहस्य प्रभुत्वम् आसीत्। अधुना सर्वेभ्यः योजनानां लाभः प्राप्यते। पूर्वं उत्तरप्रदेशः कर्फ्युप्रदेशः इति नाम्ना ज्ञायते स्म। अधुना सम्पूर्णविश्वात् अत्र निवेशः आगच्छति। पूर्वं मध्याह्नभोजनस्य अन्नं समाजवादीपार्टीसम्बद्धाः गुन्डाः खादन्ति स्म, अधुना विना भेदभावं सर्वेभ्यः योजनानां लाभः प्राप्यते। मुख्यमन्त्री सोमवासरे रायबरेलीनगरस्य फिरोजगान्धीमैदाने अष्टशतसप्तत्यधिकनवशतकोटिरूप्यकाणां परियोजनानां लोकार्पणशिलान्यासयोः अवसरे आयोजितां जनसभां सम्बोधयन् एतत् अवदत्।

सः अवदत् यत् यावन्तः आवासाः शौचालयाश्च काङ्ग्रेसेन समाजवादीपार्टीया च स्वस्य सम्पूर्णकार्यकालं यावत् निर्मातुं न शक्यन्ते स्म, ततो द्विगुणितं कार्यं वयं नववर्षेषु कृतवन्तः। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् राजीवगान्धी कथयति स्म यत् पञ्चाशीतिप्रतिशतं धनं जनाः खादन्ति। एते एव धनभक्षकाः काङ्ग्रेसजनाः समाजवादीपार्टीजनाश्च सन्ति। विकासः अद्यतनसमयस्य आवश्यकता अस्ति, किन्तु काङ्ग्रेसेन जनाः विकासात् वञ्चिताः कृताः आसन्।

मुख्यमन्त्री अवदत् यत् रायबरेलीनगरे पूर्वं विशिष्टजनानां नगरम् इति नाम्ना दुर्दशा, अभावः दरिद्रता च आसीत्। अधुना तस्य परिचयः समृद्धिनगरेण भवति। रेलयानपेटिकानिर्माणकारखाना यः वर्षेभ्यः दुर्दशाग्रस्तः आसीत्, सः अधुना उत्पादनस्य नूतनानि कीर्तिमानानि स्थापयति। विना भेदभावं सर्वेभ्यः सर्वकारीययोजनानां लाभः प्राप्यते। अधुना रायबरेलीनगरं स्वस्य विकासेन परिचीयते।

मुख्यमन्त्री अवदत् यत् रायबरेली अमेठी च काङ्ग्रेसस्य कृते पूर्वं मताधाररूपेण आस्ताम्, किन्तु अस्माकं कृते तयोः विकासः दायित्वम् अस्ति। सः अवदत् यत् रायबरेली अधुना न केवलं प्रदेशे, अपितु सम्पूर्णे देशे प्रसिद्धं जातम् अस्ति।

समाजवादीपार्टीकाङ्ग्रेसनेतृषु लक्ष्यीकृतः प्रहारः

मुख्यमन्त्री योगी आदित्यनाथः काङ्ग्रेसनेतृषु तीव्रं प्रहारं कृतवान्। सः अवदत् यत् एते बाबरीभक्ताः सन्ति। एतेषाम् आचरणेन ज्ञायते यत् एतेषां मुखे रामनाम अस्ति, किन्तु पार्श्वे छुरिका अस्ति। अतः एतेभ्यः सावधानं भवितुं आवश्यकता अस्ति।

मुख्यमन्त्री अवदत् यत् राहुलः युवापीढीं भ्रमयति। सः मनोः अपमानं करोति। अथर्ववेदे, शतपथब्राह्मणे, मत्स्यपुराणे च यस्य उल्लेखः अस्ति, तं मनुं राहुलगान्धी निरन्तरम् अपमानयति। मुख्यमन्त्री अवदत् यत् राहुलगान्धिना अवगन्तव्यं यत् कालगणनायाः रचना मनुना एव कृता आसीत्। अस्माभिः स्वकीयां विरासतं कस्मैचित् अपमानितुं न दातव्यम्।

समाजवादीपार्टीं प्रति प्रहारं कुर्वन् सः अवदत् यत् अखिलेशयादवः प्रभोः श्रीरामस्य एव विरोधी अस्ति। तस्य अस्माकं परम्परायाः प्रति द्वेषः अस्ति। मनोजपाण्डेयः केवलम् एतस्मात् कारणात् दलात् निष्कासितः यत् सः अयोध्यां गत्वा प्रभोः श्रीरामस्य दर्शनं कृतवान्। मुख्यमन्त्री अवदत् यत् सनातनस्य अस्माकं विरासतायाश्च अपमानं कुर्वद्भ्यः जनेभ्यः सावधानं भवितुं आवश्यकता अस्ति।

अस्मिन् अवसरे मन्त्रिमण्डलस्य सदस्यः प्रभारीमन्त्री च राकेशसचानः, मन्त्री मनोजपाण्डेयः, राज्यमन्त्री स्वतन्त्रप्रभारः दिनेशप्रतापसिंहः, विधायकाः अदितिसिंहः अशोककोरी च, विधानपरिषद्सदस्यः उमेशद्विवेदी, अभियन्ता अवनीशसिंहः, जिलापञ्चायतप्रशासिका रञ्जनाचौधरी इत्यादयः जनसमूहश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani