Enter your Email Address to subscribe to our newsletters

-सीतापुरनिवासिन्यो महिलाः मुख्यमंत्रिणो याचितवन्तो निराश्रित गाः, कथितः- गोसेवां कृते भवेद्आत्मनिर्भरः
लखनऊ, 24 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य सीतापुरजनपदस्य हरगावस्य गुरुदेवनगरनिवासिनी पूनमदेवी सोमवासरे ‘जनतादर्शने’ मुख्यमन्त्रिणा सह मिलिता तथा गोपालनस्य स्वेच्छां तस्मै निवेदितवती। तस्याः इच्छां ज्ञात्वा मुख्यमन्त्रिणा तत्क्षणमेव तस्याः प्रार्थनायाः विषये विचारं कृत्वा अपरमुख्यसचिवाय पशुपालनविभागाय निर्देशः प्रदत्तः यत् तस्यै निराश्रिताः गावः उपलब्धाः क्रियन्तां तथा नियमानुसारं योजनानां लाभः अपि प्रदीयताम्। तत्रैव एकेन दिव्याङ्गेन अवैधाधिपत्यस्य विषये अपि शिकायत् कृता। अस्मिन् विषये मुख्यमन्त्रिणा जाँचं कारयित्वा समस्यायाः समाधानं कर्तुं निर्देशः प्रदत्तः।
मुख्यमन्त्रिणे समर्पिते प्रार्थनापत्रे पूनमदेव्या लिखितं यत् सा गोपालनं कृत्वा आत्मनिर्भरं भवितुम् इच्छति। सम्प्रति तस्याः समीपे पञ्च गावः सन्ति तथा अन्यासां गोमातॄणां पालनाय पर्याप्तं स्थानमपि अस्ति। अतः तस्यै अधिकाः गावः अपि प्रदीयन्तां, येन सा दुग्धादीनां विक्रयं कृत्वा परिवारं समृद्धं करिष्यति। अस्मिन् विषये मुख्यमन्त्रिणा तत्क्षणमेव अपरमुख्यसचिवाय पशुपालनविभागाय निर्देशः प्रदत्तः यत् तस्यै निराश्रिताः गावः उपलब्धाः क्रियन्तां तथा मुख्यमन्त्रिसहभागितायोजनायाः अन्तर्गतं गोवंशस्य पालनपोषणाय आर्थिकसहायतामपि प्रदीयताम्।
गोसेवां कुरु, बाधाः कष्टानि च विनश्यन्ति
‘जनतादर्शने’ मुख्यमन्त्रिणा एकैकशः सर्वेषां कुशलक्षेमः पृष्टः, ततः सर्वेषां समस्याः अपि ज्ञाताः। पूनमदेव्याः प्रार्थनापत्रं पठित्वा मुख्यमन्त्रिणा तस्याः उत्साहवर्धनमपि कृतम्। मुख्यमन्त्रिणा पूनमदेव्यै उक्तं यत् सर्वकारस्य पक्षतः नियमानुसारं योजनानां लाभः तस्यै प्रदास्यते। त्वं गोसेवां कुरु, यतः गोमातरि त्रयस्त्रिंशत्कोटिदेवतानां वासः भवति। मुख्यमन्त्रिणा स्वानुभवं साझा कृत्वा उक्तं यत् मनसा गोसेवां कुरु, सर्वाः बाधाः कष्टानि च दूरीभविष्यन्ति। पूनमदेव्याऽपि श्रावणमासे स्वेच्छायाः पूर्तये मुख्यमन्त्रिणः प्रति धन्यवादः ज्ञापितः।
‘जनतादर्शने’ दिव्याङ्गेन अवैधाधिपत्यस्य शिकायत् कृता
‘जनतादर्शने’ आगतेन एकेन दिव्याङ्गेन मुख्यमन्त्रिणे निवेदितं यत् तस्य भूमौ केनचित् अवैधाधिपत्यं कृतम् अस्ति। अस्मिन् विषये मुख्यमन्त्रिणा जाँचं कारयित्वा पीडितस्य यथासम्भवं साहाय्यं कर्तुं निर्देशः प्रदत्तः। तदतिरिक्तं मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य अन्येभ्यः जनपदेभ्यः आगतानां जनानां समस्याः समयबद्धरूपेण निराकर्तुं सम्बद्धाधिकारिभ्यः निर्देशमपि प्रदत्तवान्।------------------
Hindusthan Samachar / Dheeraj Maithani