उत्तरप्रदेशस्य द्विदिवसीययात्रायै लखनऊं प्राप्तवान् मुख्यनिर्वाचनायुक्तः, जेन-जी युवभिः सह करिष्यति संवादम्
लखनऊम्, २४ अगस्तमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः उत्तरप्रदेशस्य स्वकीयायां द्विदिवसीय-यात्रायां सोमवासरे प्रातः लखनऊं प्राप्तवान्। मुख्यनिर्वाचनायुक्तः सोमवासरे मङ्गलवासरे च अत्र राजनैतिकदलानां प्रतिनिधिभिः सह जेन-जी युवभिः च संवादं
मीडिया से मुखातिब ज्ञानेश कुमार


लखनऊम्, २४ अगस्तमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः उत्तरप्रदेशस्य स्वकीयायां द्विदिवसीय-यात्रायां सोमवासरे प्रातः लखनऊं प्राप्तवान्। मुख्यनिर्वाचनायुक्तः सोमवासरे मङ्गलवासरे च अत्र राजनैतिकदलानां प्रतिनिधिभिः सह जेन-जी युवभिः च संवादं करिष्यति। उत्तरप्रदेशस्य विद्यालयेषु, महाविद्यालयेषु विश्वविद्यालयेषु च निर्वाचनप्रक्रियायाः विषये सूचनां प्रदातुं आयोज्यमानेषु कार्यक्रमेषु सः भागं ग्रहीष्यति।

उत्तरप्रदेशस्य राजधानीं लखनऊं प्राप्ते मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः पत्रकारैः सह वार्तालापं कुर्वन् अवदत्— “लखनऊं मम तपोभूमिः आसीत्, अत्रैव मम शिक्षणमपि अभवत्। वयं उत्तरप्रदेशस्य मतदातृभ्यः सन्देशं दातुम् आगताः स्मः। विशेषतः लोकतन्त्रस्य आधारशिलारूपेभ्यः अस्माकं मतदानकेन्द्रस्तरीय-अधिकारिभ्यः कतिपयविषयान् बोधयितुं तथा प्रदेशे विद्यमानेषु सर्वेषु विश्वविद्यालयेषु विद्यालयेषु च निर्वाचनप्रक्रियायाः पारदर्शितां सम्पूर्णां प्रक्रियां च बोधयितुं कार्यक्रमाः भविष्यन्ति।”

उल्लेखनीयं यत् भारतस्य मुख्यनिर्वाचन-आयुक्तेन उच्चविद्यालय-परीक्षायां (१९७९) तथा अन्तर्माध्यमिक-परीक्षायां (१९८१) च उत्तरप्रदेश-माध्यमिकशिक्षापरिषदः परीक्षायां प्रथम-स्थानं प्राप्य शैक्षणिकक्षेत्रे महत्त्वपूर्णा उपलब्धिः प्राप्ता। सः १९७९ तमे वर्षे दशभ्यः लक्षेभ्यः छात्रेभ्यः मध्ये उत्तरप्रदेश-माध्यमिकशिक्षापरिषदः उच्च-विद्यालयपरीक्षायां प्रथमस्थानं प्राप्तवान्। ततः १९८१ तमे वर्षे षड्लक्षेषु छात्रेषु मध्ये पुनः उत्तरप्रदेश-माध्यमिक-शिक्षापरिषदः परीक्षायां प्रथमस्थानं प्राप्तवान्।

Hindusthan Samachar / Divya Ranjan