Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 24 अगस्तमासः (हि.स.)।
मुख्यसचिवः आनन्दबर्द्धनः सोमवासरे सचिवालये प्रदेशे विस्तार्यमाणस्य पाइप्ड नेचुरलगैस इत्यस्य पीएनजी-पाइपरेखायाः संयोजनकार्याणां च प्रगतेः समीक्षां कृतवान्। तेन विभागीयाधिकारिभिः, गैसकम्पनीभिः जिलाधिकारिभिश्च सह उपवेशनं कृत्वा कार्येषु गतिवर्धनाय निर्देशाः प्रदत्ताः।
मुख्यसचिवेन गैसकम्पनीभ्यः सम्बन्धितेभ्यः संस्थाभ्यश्च कार्यगतिवर्धनाय निर्देशाः प्रदत्ताः। तेन उक्तं यत् वर्षाकालस्य समाप्तेः मार्गखननस्य अनुमतिप्राप्तेः च अनन्तरं पीएनजी-पाइपरेखाविस्तारणस्य कार्यं युद्धस्तरेन प्रारभेत। विशेषरूपेण हरिद्वारे कुम्भ २०२७ पूर्वं पीएनजीसम्बद्धानि सर्वाणि आवश्यककार्याणि पूर्णानि कर्तुं निर्देशः प्रदत्तः।
तेन सर्वेषु जनपदेषु सम्बन्धितसंस्थाभ्यः स्वकार्ययोजनां प्रस्तुतुं कथितम्, येन येषु क्षेत्रेषु नवीनमार्गाः अथवा अन्यनिर्माणकार्याणि प्रस्तावितानि सन्ति, तत्र पूर्वमेव पीएनजी-पाइपरेखायाः प्रावधानं कर्तुं शक्येत। अनेन भविष्ये पुनः पुनः मार्गस्य खननस्य आवश्यकता न भविष्यति तथा समयस्य संसाधनानां च संरक्षणं भविष्यति।
मुख्यसचिवेन आपूर्तिविभागाय पीएनजी-अधोसंरचनायाः विस्तारार्थं गैसकम्पनीभ्यः भूमेः आवंटनस्य, किरायेण पट्टे च भूमेः उपलब्धतायाः सम्बन्धे स्पष्टनीतिं शीघ्रं निर्मातुं निर्देशाः प्रदत्ताः। तेन उक्तं यत् अनेन विभिन्नेषु जनपदेषु पीएनजी-संयन्त्राणां अन्येषां च आवश्यकाधारभूतसंरचनानां कृते भूमिहस्तान्तरणसम्बद्धानां समस्याणां समाधानं भविष्यति।
तेन प्रस्तावितनीतौ मार्गच्छेदनस्य मार्गखननस्य च नीतिमपि समावेशयितुं निर्देशः प्रदत्तः। सहैव मार्गाणां अन्येषां च सार्वजनिकसम्पत्तीनां निर्धारितशर्तानुसारं पूर्वस्वरूपे पुनः स्थापनेन सम्बन्धितं कार्यं शीघ्रं पूर्णं कर्तुं कथितम्।
मुख्यसचिवेन प्रत्येकस्य संस्थायै विस्तृतकालरेखां समयसीमां च निर्मातुं निर्देशः प्रदत्तः। तेन उक्तं यत् परियोजनायाः पूर्णतां यावत् प्रत्येकसप्ताहस्य लक्ष्याणि निर्धारितानि भवेयुः तथा साप्ताहिकप्रगतेः आधारेण कार्याणां समीक्षां कर्तुं व्यवस्था भवेत्। तेन केन्द्रसर्वकारस्य गोवर्धनयोजनायाः अन्तर्गतं उपलब्धस्य अनुदानस्य लाभं प्राप्तुं प्रभावीकार्यवाही कर्तुमपि निर्देशाः प्रदत्ताः।
तेन सम्बन्धिताधिकारिभ्यः संस्थाभ्यश्च परस्परसमन्वयेन निर्धारितसमयसीमायां कार्यं पूर्णं कर्तुं निर्देशः प्रदत्तः। उपवेशने अपरमुख्यसचिवा रुचिमोहनरयाला, रुद्रप्रयागस्य जिलाधिकारी विशालमिश्रः, खाद्यापूर्त्यायुक्तः बीएलराणाः, अपरायुक्तः पीएसपांगती इत्यादयः विभिन्नजनपदानां जिलाधिकारिणः गैससंस्थानां प्रतिनिधयश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani