Enter your Email Address to subscribe to our newsletters

मुम्बई, २४ अगस्तमासः (हि.स.)। सम्पूर्णराज्यस्य ध्यानम् आकर्षितवती ३२ तमा ठाणे-महापौर-वर्षा-मैराथन २०२६ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के रविवासरे आयोजयिष्यते। महापौरया ठाणेनगरस्य नागरिकेभ्यः राज्यस्य अन्येभ्यः नागरिकेभ्यश्च प्रशासनिक-नियमानुसारं आयोज्यमाने अस्मिन् महापौर-वर्षा-मैराथन-कार्यक्रमे स्वेच्छया भागं ग्रहीतुं आह्वानं कृतम्। महापौर शर्मिला-पिम्पोलकरेन अद्य आयोजितायां पत्रकार-वार्तायां सूचितं यत् ‘प्रगतये धावनम्, गतिशीलं ठाणे’ इति घोषवाक्यस्य आधारेण आयोज्यमाने अस्मिन् मैराथन-कार्यक्रमे २५ सहस्राधिकाः धावकाः भागं ग्रहीष्यन्ति।
पत्रकार-वार्तायाः पूर्वं ३२ तमस्य ठाणे-महापौर-वर्षा-मैराथनस्य विज्ञापन-चलच्चित्रस्य लोकार्पणं महापौरया शर्मिला-पिम्पोलकरेण अभिनेता नीलेश-साबले तथा आदिनाथ-कोठारे इत्येतयोः उपस्थितौ कृतम्। तदनन्तरं प्रतिभागिभ्यः प्रदास्यमानाः टी-शर्ट्-वस्त्राणि मैराथन-पदकं च प्रदर्शितम्।
मैराथनस्य उद्घाटनं प्रातः षड्वादने राज्यस्य उपमुख्यमन्त्री एकनाथ-शिन्दे करिष्यति। इयं स्पर्धा विद्यालयीय-विद्यार्थिभ्यः आरभ्य ज्येष्ठनागरिकेभ्यः पर्यन्तं विभिन्न-वयोवर्गाणां कृते आयोजिता अस्ति।
अस्मिन् वर्षेऽपि २१ किलोमीटर मुख्यवर्गे पुरुषाणां महिलानां च तथा १८ वर्षाधिकवयस्कपुरुषाणां १० किलोमीटर-वर्गे, १८ वर्षाधिकवयस्कमहिलानां १० किलोमीटर-वर्गे च समयमापन-प्रौद्योगिक्याः उपयोगः भविष्यति। एतस्याः प्रौद्योगिक्याः उपयोगेन प्रतिभागिनां धावनसमयस्य यथार्थं अभिलेखनं भविष्यति।
२१ किलोमीटर पुरुष-महिला-वर्गयोः स्पर्धा नगरपालिकाभवनात् प्रारभ्य पुनः नगरपालिकाभवने एव समाप्ता भविष्यति। अस्मिन् वर्गे प्रथमस्थानं प्राप्तवते एकलक्षरुप्यकाणि, द्वितीयस्थानं प्राप्तवते पञ्चसप्ततिसहस्ररुप्यकाणि, तृतीयस्थानं प्राप्तवते पञ्चाशत्सहस्ररुप्यकाणि, चतुर्थस्थानं प्राप्तवते त्रिंशत्सहस्ररुप्यकाणि तथा पञ्चमस्थानं प्राप्तवते विंशतिसहस्ररुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते। तदतिरिक्तम् अन्ये आकर्षकपुरस्काराः अपि निर्धारिताः सन्ति।१८ वर्षाधिकवयस्कमहिलानां कृते १० किलोमीटर-धावनस्पर्धा महापालिका-भवनात् प्रारभ्य हीरानन्दानी-एस्टेट इत्यत्र समाप्ता भविष्यति। अस्याः स्पर्धायाः विजेत्र्यै पञ्चविंशतिसहस्ररुप्यकाणि, द्वितीयस्थानं प्राप्तवत्यै विंशतिसहस्र-रुप्यकाणि, तृतीयस्थानं प्राप्तवत्यै पञ्चदशसहस्ररुप्यकाणि, चतुर्थस्थानं प्राप्तवत्यै दशसहस्ररुप्यकाणि तथा पञ्चमस्थानं प्राप्तवत्यै सप्तसहस्र-पञ्चशतरुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते।
१८ वर्षाधिकवयस्कपुरुषाणां कृते १० किलोमीटर-धावनस्पर्धा महापालिका-भवनात् प्रारभ्य मिलेनियम्-टोयोटा इत्यत्र समाप्ता भविष्यति। अस्मिन् वर्गेऽपि प्रथमस्थानाय पञ्चविंशतिसहस्र-रुप्यकाणि, द्वितीयस्थानाय विंशतिसहस्र-रुप्यकाणि, तृतीयस्थानाय पञ्चदशसहस्र-रुप्यकाणि, चतुर्थस्थानाय दशसहस्र-रुप्यकाणि तथा पञ्चमस्थानाय सप्तसहस्रपञ्चशत-रुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते।
१५ वर्षाधिकवयस्कानां बालकानां बालिकानां च कृते ५ किलोमीटर-धावनस्पर्धा महापालिका-भवनात् माँसाहेब-मीनाताई-ठाकरे-चतुष्पथपर्यन्तं भविष्यति। अस्यां स्पर्धायां प्रथमस्थानाय अष्टसहस्ररुप्यकाणि, द्वितीयस्थानाय पञ्चसहस्ररुप्यकाणि, तृतीयस्थानाय पञ्चसहस्रपञ्चशतरुप्यकाणि, चतुर्थ-स्थानाय पञ्चसहस्ररुप्यकाणि तथा पञ्चमस्थानाय चतुःसहस्ररुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते।
१२ वर्षेभ्यः न्यूनवयस्कानां बालकानां बालिकानां च कृते ३ किलोमीटर-धावनस्पर्धा नगरपालिकाभवनात् प्रारभ्य तत्रैव समाप्ता भविष्यति। अस्मिन् वर्गे प्रथमपुरस्कारः पञ्चसहस्रपञ्चशत-रुप्यकाणि, द्वितीयपुरस्कारः पञ्चसहस्र-रुप्यकाणि, तृतीयपुरस्कारः चतुःसहस्र-पञ्चशतरुप्यकाणि, चतुर्थपुरस्कारः त्रिसहस्रपञ्चशतरुप्यकाणि तथा पञ्चमपुरस्कारः त्रिसहस्ररुप्यकाणि भविष्यति। विद्यालयीयविद्यार्थिनां आनेतुं नेतुं च परिवहनयानानां व्यवस्था कृता अस्ति।
६० वर्षाधिकवयस्कानां ज्येष्ठनागरिकाणां कृते पुरुषाणां महिलानां च पृथक् १ किलोमीटर-धावनस्पर्धा आयोजिता अस्ति। नगरपालिकाभवनात् प्रारभ्य-माणायाम् अस्यां स्पर्धायां पुरुषाणां महिलानां च कृते पृथक् प्रथमपुरस्कारः पञ्चसहस्ररुप्यकाणि, द्वितीयपुरस्कारः चतुःसहस्र-रुप्यकाणि, तृतीयपुरस्कारः त्रिसहस्र-रुप्यकाणि, चतुर्थपुरस्कारः द्विसहस्र-रुप्यकाणि तथा पञ्चमपुरस्कारः सहस्ररुप्यकाणि निर्धारितानि सन्ति।
ठाणे-महानगरपालिकायाः अधिकारिणां कर्मचारिणां च कृते पुरुष-महिला-वर्गयोः ३ किलोमीटर-धावनस्पर्धा भविष्यति। धावनस्पर्धा नगरपालिकाभवनात् प्रारभ्य तत्रैव समाप्ता भविष्यति। अस्यां स्पर्धायां प्रथमस्थानं प्राप्तवते पञ्चसहस्ररुप्यकाणि, द्वितीयस्थानं प्राप्तवते चतुःसहस्र-रुप्यकाणि, तृतीयस्थानं प्राप्तवते त्रिसहस्ररुप्यकाणि, चतुर्थस्थानं प्राप्तवते द्विसहस्ररुप्यकाणि तथा पञ्चमस्थानं प्राप्तवते सहस्ररुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते।
१ किलोमीटर-धावनस्पर्धा ‘आनन्दाय धावनम्’ इति नाम्ना नगरपालिकाभवनात् प्रारभ्यते। अस्यां स्पर्धायां सर्वेषां वयोवर्गाणां जनाः भागं ग्रहीतुं शक्नुवन्ति। विजेतृभ्यः प्रथमस्थाने पञ्चसहस्र-रुप्यकाणि, द्वितीयस्थाने चतुःसहस्र-रुप्यकाणि, तृतीयस्थाने त्रिसहस्र-रुप्यकाणि, चतुर्थस्थाने द्विसहस्र-रुप्यकाणि तथा पञ्चमस्थाने सहस्र-रुप्यकाणि पुरस्काररूपेण प्रदास्यन्ते। अस्यां स्पर्धायां विजेतुः आयुवर्गः कः अपि भवतु, पुरस्काराणां संख्या राशिश्च समानैव भविष्यति।
मैराथन-कार्यक्रमे २५ सहस्राधिकाः धावकाः भागं ग्रहीष्यन्ति। अतः प्रशासनाय विशेषसावधानता वर्तितुं निर्देशः प्रदत्तः, येन स्पर्धामार्गे कापि बाधा न भवेत्।
/ अंशु गुप्ता