Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। ‘विश्वगुजरातीभाषादिवसस्य’ अवसरे केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन सर्वेभ्यः गुजरातीभगिनी-भ्रातृभ्यः हार्दिक्य: शुभकामना: प्रदत्ताः।
शाहः ‘एक्स’-सामाजिकमाध्यमे लिखित-वान्— “नरसिंहमहतः भक्ति-गीतेभ्यः कविनर्मदस्य ओजस्विनीभ्यः कविताभ्यः पर्यन्तं गुजरातीभाषया भारताय अमूल्या साहित्यिक-सांस्कृतिकपरम्परा प्रदत्ता अस्ति। भक्तेः, ज्ञानस्य, लोकजीवनस्य च माधुर्यस्य तन्तुभिः विनिर्मिता एषा भाषा अद्य विश्वस्य प्रत्येकस्मिन् कोणे गुजरातिजनान् तेषां मूलैः सह सम्बद्धान् स्थापयति। आगच्छामः, अस्मिन् अवसरे वयं न केवलं स्वमातृभाषायाः, अपितु सर्वासाम् भारतीयभाषाणां संरक्षणस्य संवर्धनस्य च संकल्पं कुर्मः।”
Hindusthan Samachar / Divya Ranjan