केन्द्रीयमन्त्री अर्जुनमेघवालः मङ्गलवासरे ५८तमस्य युवासंसद्प्रतियोगितायाः २०२५-२६-विजेतृभ्यः पुरस्कारान् प्रदास्यति
नवदिल्ली, २४ अगस्तमासः (हि.स.)। केन्द्रीयविधिन्यायराज्यमन्त्री अर्जुनराम-मेघवालः मङ्गलवासरे ५८तमस्य युवासंसद्प्रतियोगितायाः २०२५-२६ मध्ये उत्कृष्टं प्रदर्शनं कृतवद्भ्यः राजधानी-स्थेभ्यः विद्यार्थिभ्यः पुरस्कारान् प्रदास्यति। एतेषु दिल्लीशिक्षानिदेश
केन्द्रीय मंत्री अर्जुन मेघवाल (फाइल फोटो)


नवदिल्ली, २४ अगस्तमासः (हि.स.)। केन्द्रीयविधिन्यायराज्यमन्त्री अर्जुनराम-मेघवालः मङ्गलवासरे ५८तमस्य युवासंसद्प्रतियोगितायाः २०२५-२६ मध्ये उत्कृष्टं प्रदर्शनं कृतवद्भ्यः राजधानी-स्थेभ्यः विद्यार्थिभ्यः पुरस्कारान् प्रदास्यति। एतेषु दिल्लीशिक्षानिदेशालयस्य तथा शिक्षाविभागस्य अन्तर्गतेषु विद्यालयेषु अध्ययनं कुर्वन्तः विद्यार्थिन: सम्मिलिताः भविष्यन्ति।

संसदीयकार्यमन्त्रालयस्य अनुसारम् एते पुरस्काराः संसद्भवनस्य जी.एम्.सी.-बालयोगी-सभागारे प्रदास्यन्ते। अस्यां प्रतियोगितायां प्रथमस्थानं पीतमपुरस्य परवाना-मार्गे स्थितेन बालभारती-पब्लिक-विद्यालयेन प्राप्तम् अस्ति। तदतिरिक्तं प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृतवद्भ्यः अन्येभ्यः एकादशभ्यः विद्यालयेभ्यः अपि मेरिट्-ट्रॉफी प्रदास्यते।

अस्याः प्रतियोगितायाः उद्देश्यं युववंशे आत्मानुशासनस्य, विभिन्नमतानां प्रति सहिष्णुतायाः, विचाराणां निष्पक्षाभिव्यक्तेः, लोकतान्त्रिकजीवनशैल्याः अन्येषां गुणानां च विकासः अस्ति। तदतिरिक्तं विद्यार्थिषु आत्मविश्वासः, नेतृत्वक्षमता, प्रभावीवक्तृत्वकला तथा विविधकौशलानां विकासोऽपि भवति।

उल्लेखनीयं यत् युवसंसद्प्रतियोगिता-कार्यक्रमस्य अन्तर्गते अस्याः शृङ्खलायाः ५८तमप्रतियोगिता वर्षे २०२५-२६ मध्ये दिल्ली-राष्ट्रीयराजधानीक्षेत्रे आयोजिता।

राजधान्याः एकादशविद्यालयेषु द्वारका-क्षेत्रे-२२ स्थितः डॉ. बी.आर. अम्बेडकरः सी.एम्. श्री-विद्यालयः, पेशवामार्गे स्थितः नवयुगविद्यालयः, एस.पी. मुखर्जीमार्गे स्थितः प्रेजेण्टेशन-कॉन्भेण्ट्-सीनियर-सेकेण्डरी-विद्यालयः, बाबा नीमकरौली सर्वोदयकन्याविद्यालयः, सर्वोदयकन्या-विद्यालयः, सर्वोदयबाल-विद्यालयः क्रमाङ्कः १, अटलआदर्श-विद्यालयः, डॉ. बी.आर. अम्बेडकरः सी.एम्. श्री-विद्यालयः (सेक्टर-१७-रोहिणी), सर्वोदयकन्या-विद्यालयः क्रमाङ्कः १ (यमुनाविहारः, सी-ब्लॉक्), ईशानी-सर्वोदयकन्याविद्यालयः (जी-ब्लॉक्, साकेतम्) तथा केरलसीनियर-सेकेण्डरी-विद्यालयः (विकासपुरी) च सम्मिलिताः सन्ति।

Hindusthan Samachar / Divya Ranjan