Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ अगस्तमासः (हि.स.)। ‘एकराष्ट्रम्, एकनिर्वाचनम्’ इति प्रस्तावस्य विषये विचारं कुर्वत्याः संयुक्त-संसदीयसमित्याः सोमवासरे महत्त्वपूर्णं सम्मेलनम् अभवत्। संसद्भवनस्य एनेक्स इत्यत्र इति परिसरे आयोजिते सम्मेलने विपक्षस्य अनेके प्रमुखाः नेतारः अपि भागं गृहीतवन्तः। जे.पी.सी. १२९ तमस्य संविधान-संशोधनविधेयकस्य परीक्षणं करोति। अस्य विधेयकस्य उद्देश्यं लोकसभायाः राज्य-विधानसभानां च निर्वाचनानि एकस्मिन्नेव समये आयोजयितुं मार्गस्य निर्माणम् अस्ति।
सोमवासरे आयोजिते सम्मेलने जे.पी.सी. अध्यक्षः पी.पी. चौधरी, भाजपा-सांसदः के. लक्ष्मणः, कांग्रेस-महासचिवा प्रियङ्का गान्धी वाड्रा, कांग्रेसस्य वरिष्ठनेता पूर्वकेन्द्रीयमन्त्री च पी. चिदम्बरम्, तृणमूल-कांग्रेसस्य सांसद् सागरिका घोष तथा राष्ट्रवादी कांग्रेस पार्टी सांसद् सुप्रिया सुले इत्यादयः समितेः अन्ये सदस्याः च सम्मिलिताः अभवन्। प्रायः सप्तहोरापर्यन्तं चले अस्मिन् सम्मेलने जे.पी.सी. अध्यक्षः पी.पी. चौधरी कथनं कृतवान् यत् अद्यावधि समितिः येषां हितधारकाणां परामर्शं कृतवती, तेषु प्रायः ९९ प्रतिशताः जनाः देशे सर्वत्र एककालिकनिर्वाचनस्य पक्षे सन्ति।‘एकराष्ट्रम्, एकनिर्वाचनम्’ इत्यस्य विषये गठितायाः संयुक्तसंसदीयसमित्याः अध्यक्षः पी.पी. चौधरी माध्यमप्रतिनिधिभिः सह वार्तालापे उक्तवान् यत् समितेः पद्मपुरस्कारेण सम्मानितेभ्यः जनेभ्यः महत्त्वपूर्णाः उपयोगिनः च विचाराः प्राप्ताः। सः उक्तवान् यत् विभिन्नक्षेत्रैः सम्बद्धेभ्यः अन्येभ्यः पद्मपुरस्कारविजेतृभ्यः अपि तेषां विविधानुभवानाम् आधारेण समितिः महत्त्वपूर्णां सूचनां प्राप्तुं शक्नोति। पी.पी. चौधरी उक्तवान् यत् सम्बद्धस्य पद्मपुरस्कारविजेतुः दीर्घकालीनानुभवं तथा नागरिकसमाजस्य प्रतिनिधिरूपेण तस्य भूमिकां दृष्ट्वा समितिः तस्मात् मूल्यवान् सूचनां प्राप्तवती।
सः उक्तवान् यत् ‘एकराष्ट्रम्, एक-निर्वाचनम्’ विषये तेषां विचाराः अपि अत्यन्तं महत्त्वपूर्णाः सन्ति। सः अवदत् यत् पद्मपुरस्कारविजेतॄणां मतम् अस्ति यत् समित्या राष्ट्रहितं सर्वोच्चप्राथमिकतां दत्त्वा कार्यं कर्तव्यम्। तदनन्तरं ‘एकराष्ट्रम्, एकनिर्वाचनम्’ इति व्यवस्था कार्यान्वितां कर्तुं पूर्वं पर्याप्ताः सुरक्षोपायाः सुनिश्चिताः करणीयाः। चौधरी उक्तवान् यत् पद्मपुरस्कारविजेतृषु ‘एकराष्ट्रम्, एक-निर्वाचनम्’ इत्यस्य विषये व्यापकः समर्थनभावः अस्ति तथा सर्वे इच्छन्ति यत् राष्ट्रहितं ध्यानं दत्त्वा अस्मिन् दिशि अग्रे गन्तव्यम्।
Hindusthan Samachar / Divya Ranjan