रक्षाबन्धनपर्वणि अस्मिन् वर्षे न भविष्यति भद्रायाः प्रभावः, २८ अगस्तमासे एव रक्षासूत्रं बन्धिष्यते
२४ अगस्तमासः (हि.स.)। भ्रातृभगिन्योः अखण्डप्रेमस्नेहयोः पर्व रक्षाबन्धनम् अस्मिन् वर्षे २८ अगस्तमासे आचरिष्यते। यद्यपि पूर्णिमातिथिः द्विदिनव्यापिनी अस्ति, अतः रक्षाबन्धनस्य दिनाङ्कं रक्षासूत्र-बन्धनस्य शुभसमयं च प्रति जनानां मध्ये असमञ्जसस्य स्थित
रक्षाबंधन


२४ अगस्तमासः (हि.स.)। भ्रातृभगिन्योः अखण्डप्रेमस्नेहयोः पर्व रक्षाबन्धनम् अस्मिन् वर्षे २८ अगस्तमासे आचरिष्यते। यद्यपि पूर्णिमातिथिः द्विदिनव्यापिनी अस्ति, अतः रक्षाबन्धनस्य दिनाङ्कं रक्षासूत्र-बन्धनस्य शुभसमयं च प्रति जनानां मध्ये असमञ्जसस्य स्थितिः वर्तते। पञ्चाङ्गानां ज्योतिषीयगणनानुसारम् अस्मिन् वर्षे रक्षाबन्धनपर्वणि भद्रायाः प्रभावः न भविष्यति तथा च २८ अगस्तमासे उदयातिथौ पूर्णिमातिथेः विद्यमानत्वात् अस्मिन्नेव दिने रक्षासूत्रबन्धनं शुभं मन्यते।

वस्तुतः पूर्णिमातिथेः प्रारम्भः २७ अगस्तमासस्य प्रातः ९ वादनात् ०८ निमेषे भविष्यति। एषा तिथिः परदिने अर्थात् २८ अगस्तमासे प्रातः ९ वादनात् ४८ निमेषपर्यन्तं भविष्यति। अतः पूर्णिमातिथिः द्विदिनव्यापिनी भवति। अस्मिन् सति जनानां मध्ये प्रश्नः उद्भवति यत् रक्षाबन्धनपर्व २७ अगस्तमासे आचरितव्यं वा २८ अगस्तमासे।

पञ्चाङ्गविदां कथनमस्ति यत् पर्वणां उत्सवानां च निर्धारणे उदयातिथेः विशेषं महत्त्वम् अस्ति। यतः २८ अगस्तमासे सूर्योदयकाले पूर्णिमातिथिः विद्यमाना भविष्यति तथा च तदनन्तरमपि प्रातः ९ वादनात् ४८ निमेषपर्यन्तं पूर्णिमा भविष्यति, अतः रक्षाबन्धनस्य कृते २८ अगस्तमासः एव उपयुक्तः मन्यते।

उदयातिथेः कारणेन २८ अगस्तमासे रक्षाबन्धनम्

भारतीयप्राच्यसोसायटी इत्यस्याः संस्थायाः डॉ. प्रतीकमिश्रपुरी इत्यस्य अनुसारं २८ अगस्तमासे पूर्णिमा उदयातिथौ अस्ति। भारतीयपर्वणां उत्सवानां च निर्धारणे उदयातिथिः मान्यते। तेन उक्तं यत् २८ अगस्तमासे पूर्णिमातिथिः अर्धघटिकातः अधिककालं यावत् विद्यमाना भविष्यति, अतः अस्मिन् दिने रक्षाबन्धनपर्वणः आचरणे किमपि संशयं न भवेत्। तेन एतदपि स्पष्टं कृतं यत् श्रावणी-उपाकर्म २७ अगस्तमासे करणं पञ्चाङ्गसम्मतम् अस्ति, परन्तु भ्रातृभगिन्योः पर्व रक्षाबन्धनस्य कृते २८ अगस्तमासः उचितः भविष्यति।

प्रातः ५ वादनात् ५७ निमेषेभ्यः ९ वादनात् ४८ निमेषपर्यन्तं रक्षासूत्रबन्धनस्य शुभसमयः

पञ्चाङ्गानुसारं २८ अगस्तमासे रक्षासूत्र-बन्धनस्य कृते प्रातः ५ वादनात् ५७ निमेषेभ्यः ९ वादनात् ४८ निमेषपर्यन्तं कालः शुभः कथितः अस्ति। तथापि विभिन्नेषु स्थानेषु सूर्योदयसमये भेदः भवति, अतः स्थानीयस्तरे शुभमुहूर्तस्य समये कतिपयनिमेषाणां अन्तरं भवितुम् अर्हति। अतः जनैः स्वक्षेत्रस्य स्थानीय-पञ्चाङ्गात् अथवा विदुषः पुरोहितात् समयस्य पुष्टिं कर्तुं परामर्शः प्रदीयते।

२७ अगस्तमासे भविष्यति भद्रायाः प्रभावः

रक्षाबन्धनपर्वणि प्रतिवर्षं भद्रां प्रति विशेषा सावधानता क्रियते। मान्यतानुसारं भद्राकाले रक्षासूत्रं न बध्यते। अस्मिन् वर्षेऽपि २७ अगस्तमासे पूर्णिमातिथेः प्रारम्भेन सह भद्रायाः संयोगः भविष्यति।

पञ्चाङ्गगणनानुसारं २७ अगस्तमासे प्रातः ९ वादनात् ०८ निमेषेभ्यः रात्रौ ९ वादनात् ३२ निमेषपर्यन्तं भद्रा भविष्यति। अस्मिन् काले रक्षाबन्धनपर्वणः आचरणम् उचितं न मन्यते। ततः २८ अगस्तमासे सूर्योदयकाले पूर्णिमातिथेः विद्यमानत्वं भद्रारहितता च भविष्यतः, अतः रक्षाबन्धनस्य कृते अयं दिवसः अधिक: उपयुक्तः मन्यते।

आपणेष्वपि आरब्धा रक्षाबन्धनस्य सज्जता

रक्षाबन्धनस्य दिनाङ्के स्पष्टे सति अधुना आपणेष्वपि पर्वण: सज्जताः तीव्रतया प्रारब्धाः सन्ति। रक्षासूत्रविक्रयण-आपणेषु वर्णवर्णानां मनोहारिणीनां च रक्षासूत्राणां याचना वर्धमाना अस्ति। भगिन्यः स्वभ्रातृभ्यः रक्षासूत्राणि पूजासामग्रीं च क्रेतुं सज्जतां कुर्वन्ति, अपरतः मिष्टान्नोपहार-विक्रयणदुकानेष्वपि रक्षाबन्धनं प्रति सज्जताः प्रारब्धाः सन्ति।

समग्रतया अस्मिन् वर्षे पूर्णिमातिथेः द्विदिनव्यापिनीभावेऽपि पञ्चाङ्गविद्भिः स्थितिः स्पष्टा कृता अस्ति। २७ अगस्तमासे भद्रायाः कारणेन रक्षासूत्रबन्धनात् विरतिं कृत्वा २८ अगस्तमासे उदयातिथौ भद्रारहितायां पूर्णिमायां रक्षाबन्धनपर्व आचरितुं परामर्शः प्रदत्तः अस्ति।

Hindusthan Samachar / Divya Ranjan