Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, २४ अगस्तमासः (हि.स.)। कनखले स्थितस्य श्रीतिलभाण्डेश्वर-महादेवमन्दिरस्य चतुस्त्रिंशत्तमे श्रावण-मासवार्षिकोत्सवमहोत्सवस्य अन्तर्गते आयोज्यमानायाः श्रीमद्भागवत-कथायाः षष्ठे दिने मन्दिरपरिसरे भक्तेः आध्यात्मिकतायाश्च वातावरणं निर्मितम् आसीत्। कथाश्रवणार्थं बहुसंख्याकाः श्रद्धालवः मन्दिरं प्राप्तवन्तः। कथाव्यासः आचार्यः दीपकभाईजोशी श्रीमद्भागवतस्य विभिन्नानां प्रसङ्गानां वर्णनं कुर्वन् श्रद्धालुभ्यः भगवद्भक्तेः, धर्मस्य सदाचारस्य च सन्देशं प्रदत्तवान्।
अस्मिन्नवसरे श्रीतिलभाण्डेश्वर-महादेव-मन्दिरस्य परमाध्यक्षः श्रीमन्तः त्रिवेणी-दासमहाराजः अवदत् यत् श्रीमद्भागवत-कथा केवलं धार्मिकः कार्यक्रमः न, अपि तु जीवनस्य सम्यग्दिशां प्रदर्शयन् आध्यात्मिकमार्गः अस्ति। कथाश्रवणेन मनुष्यस्य अन्तः भक्तेः, संस्कारस्य सद्भावनायाश्च भावना जागरिता भवति। तेन उक्तं यत् भगवन्नामस्मरणं सन्तवाणीश्रवणं च जीवने सकारात्मकं परिवर्तनं जनयतः। सः सर्वान् श्रद्धालून् धर्मस्य सेवायाश्च मार्गे चलितुं आहूतवान्।
कथायाः मध्ये भगवत: श्रीकृष्णस्य लीलानां भक्तिसम्बद्धानां च प्रसङ्गानां वर्णनं श्रुत्वा श्रद्धालवः भावविभोराः अभवन्। कथास्थले समये समये भगवत: श्रीकृष्णस्य जयघोषैः वातावरणं गुञ्जितम्। श्रद्धालवः भजनकीर्तनेऽपि उत्साहपूर्वकं भागं गृहीतवन्तः।
कथायाः मुख्ययजमानाः मीना अग्रवालः, सत्यप्रकाश अग्रवालः, मिथिलेश: लवानिया, बनवारीलाल: लवानिया च, मथुरानगरवासिनः आसन्। यजमान-परिवारस्य पक्षतः कथायाम् उपस्थितानां श्रद्धालूनां स्वागतं कृतम्। कथासमाप्तौ भगवत: मङ्गलारार्तिकी कृता। श्रद्धालवः भक्तिभावेन आरार्तिक्यां भागं गृहीत्वा विश्वस्य लोकस्य च कल्याणं, सुखशान्तिं समृद्धिं च कामितवन्तः।
Hindusthan Samachar / Divya Ranjan