Enter your Email Address to subscribe to our newsletters

निजी-निर्माण्या सह अनन्येतर-अनुज्ञप्तिसन्धि:, बीजोत्पादनस्य विपण-नस्य च अधिकारः प्राप्स्यते
हिसारम्, २५ अगस्तमासः (हि.स.)। अत्रत्येन हरियाणाकृषिविश्वविद्यालयेन विकसितानाम् उन्नतकृषिप्रभेदानां कृषकेभ्यः प्रापणस्य दिशि एकम् अन्यत् पदं स्थापितम् अस्ति। विश्वविद्यालयेन सर्षपस्य स्वस्य प्रथमस्य संकरप्रभेदस्य आर.एच.एच.-२१०१ इत्यस्य बीजोत्पादनाय विपणनाय च उत्तराखण्डस्य रुद्रपुरस्थितया हेमट्रिक्स-एग्रीटेक्-प्राइवेट्-लिमिटेड् इति सह अनन्येतर-अनुज्ञप्तिसन्धि: कृतः। अनेन अस्य उन्नतप्रभेदस्य बीजं बृहद्स्तरेण उत्पादयित्वा कृषकेभ्यः उपलब्धं कर्तुं मार्गः प्रशस्तः अभवत्। सम्झौते विश्वविद्यालयस्य पक्षतः अनुसन्धाननिदेशकः डॉ. राजबीरगर्गः तथा निर्माण्या: पक्षतः क्षेत्रीयप्रबन्धकः बी.एन. मिश्रा इत्येताभ्यां हस्ताक्षराणि कृतानि।
कुलसचिवः डॉ. पवनकुमारः मङ्गलवासरे उक्तवान् यत् सन्ध्यनुसारं निर्माणी विश्वविद्यालयाय अनुज्ञप्तिशुल्कं प्रदास्यति तथा ततः सा आर.एच.एच.-२१०१ इत्यस्य बीजस्य उत्पादनं विपणनं च कर्तुं अधिकारं प्राप्स्यति। अनेन विश्वविद्यालयेन विकसितस्य प्रौद्योगिक्याः उन्नतप्रभेदस्य च लाभः प्रत्यक्षरूपेण कृषकेभ्यः प्रापयितुं शक्यते।
१४२ दिवसेषु सिद्धः, प्रति हेक्टेयरं २८ तः ३० कुन्तलपर्यन्तम् उत्पादनम्
अनुसन्धाननिदेशकः डॉ. राजबीरगर्गः उक्तवान् यत् आर.एच.एच.-२१०१ इति सर्षपस्य उन्नतः संकरप्रभेदः अस्ति, यः प्रायः १४२ दिवसेषु परिपक्वः भवति। अस्य औसतं उत्पादनं प्रति हेक्टेयरं २८ तः ३० कुन्तलपर्यन्तं भवति। अस्मिन् प्रभेदे शाखानां सङ्ख्या अधिका भवति, तथैव फलिकानाम् अपि सङ्ख्या अधिका भवति, येन अन्येभ्यः उन्नतप्रभेदेभ्यः तुलनया अस्य उत्पादनक्षमता उत्तमा भवति। अस्य बीजानि मध्यमाकारकाणि भवन्ति तथा तेषु प्रायः ४० प्रतिशतं तैलांशः भवति।
विश्वविद्यालयप्रशासनेन आशा प्रकटिता यत् निजीक्षेत्रेण सह एतादृशैः सहभागिताभिः विश्वविद्यालयेन विक-सितानां नूतनप्रभेदानां प्रौद्योगिकीनां च व्यावसायिकस्तरे विस्तारः भविष्यति तथा कृषकेभ्यः गुणवत्तापूर्णानि उन्नतानि बीजानि सुलभतया उपलब्धानि भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan